SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ ७८ आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् गीतिः - गोपीपुराविभागे, सुश्रावक-मुख्य-सद्गृहस्थानाम् । झवेरी नगीनदास-झवेरचन्दाऽऽदि-महेभ्यवर्गाणाम् ॥४३७॥ अत्याग्रहेण गोपी-पुरायां "जेमु" नाम्न्याः श्रेष्ठिन्याः । उपाश्रयेऽधिकरम्ये, निश्चित्य चतुर्मासिकाऽवस्थानम् ॥४३८॥ ख-रस-नव-शशाङ्कवर्षे (१९६०),शुचि-सित-षष्ठीतिथ्यां पन्न्यासः। चरित्रनायकमेनं, श्रीअनुयोगाऽऽचार्य-भावविजयः ॥४३९॥ भगवतीसूत्रयोगं, प्रवेशयामास कर्मठो विद्वान् । सोऽनुष्ठानं चक्रे, चाऽऽहारशुद्धि विशेषतः पश्यन् ॥४४०॥ (चतुर्भिः कलापकम्) श्रीमद्गुरुवर-भक्तिं, कुर्वाणस्त्रिकरणशुद्धया नित्यम् । प्रावृषि मेघ इवाऽसौ, सदा ववर्ष देशनाऽमृत-धाराम् ॥४४१॥ भव्यान् प्राणिन इत्थं, प्रतिबोधयन् साधयन्नपि योगम् । सूर्यपुरेऽकृत चातु-र्मास्यं षष्टि-नवैकमिते वर्षे (१९६०) ॥४४२॥ वसन्ततिलका - तत्रैव चन्द्र-रस-नन्द-महीमिताब्दे (१९६१), मार्गे सिते फणितिथौ विबुधाय चाऽस्मै । पन्यास-भावविजयः सह सर्वसंधैः, प्रायच्छदुत्तम-गणीति पदं महीयान् ॥४४३॥ रांदेर-वासि-बहुभावुक-सर्वसंघाऽऽ हूत्या पुनः पुनरुपागतया मुनीशः । तस्माद्विहृत्य सगुरुर्जलदाऽवसाने, रांदेर-पत्तन-मुपागतवान् गणी सः ॥४४४॥
SR No.022563
Book TitleVijaynitisuri Charitram
Original Sutra AuthorN/A
AuthorVijayhardikratnasuri
PublisherNitisuri Jain Tattvagyan Pathshala
Publication Year2013
Total Pages502
LanguageSanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy