________________
७६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तस्माच्छीघ्र-मिहत्य-सर्वसुजना ज्ञानस्य संरक्षणं, नैजं द्रव्यमपि प्रवीत्य नियतं श्वः श्रेयसायाऽऽत्मनः । कुर्वन्तु त्वरया तदीय-सकला आशातना रुन्धतां, भाण्डागारिक-जीर्णपुस्तक-मशेषं लेखनीयं पुनः ॥४२६॥ जीर्णोद्धारकरा नरा इह भवे कीर्तिं परामियूरति, बुद्धयाधिक्यमपि व्रजन्ति नियतं लक्ष्मी चिरस्थायिनीम् । स्वर्गीयाऽनुपमं सुखं च सुचिरं सम्भुञ्जते तेऽनघा, इत्थं सर्वजनानुवाच सदसि श्रीमांश्चरित्राऽधिपः ॥४२७॥
उपजातिः -
इत्थं चारित्राऽधिपतिर्गरीयान्,
प्रौढप्रतापः सकल-व्यवस्थाम् । समस्तसंधैर्भविकैरुदारै
रचीकरत्पुस्तकसद्मनः सः ॥४२८॥ प्राचीन-भूयांसि सुपुस्तकानि,
सत्तालपत्रोपरि लेखितानि । जीर्णानि शीर्णानि च भूय एव,
प्रावीवृतल्लेखयितुं तदैव ॥४२९॥ तत्राऽऽगमत् सूर्यपुराऽधिवासी,
सच्छेष्ठि-मञ्छू-कुलनन्दनो हि । नगीनदासो गुरुवर्य-पार्श्वे,
झवेरिकः सौवपुरं निनीषुः ॥४३०॥ व्यजिज्ञपन्नाथ ! भवत्कृपातो,
लैनाऽऽख्य-चैत्ये भगवत्प्रतिष्ठाम् ।