________________
४४२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सोढुं स्वकीयस्य शरीरकस्य, ___दौर्बल्यहेतोः समभूदशक्तः ॥२१९॥ समादिशत् सूरिवरस्ततोऽसौ,
व्याख्यानहेतोनिजविज्ञशिष्यम् । गणीशसंपद्विजयं श्रुतशं,
___पन्यासमत्युच्चपदातिवित्तम् ॥२२०॥ एतेऽपि पन्यासवरा गुरूणां,
___ सूरीश्वराणां समवाप्य चाज्ञाम् । सद्बोधकस्याऽऽगमसारभाजो,
'वंदित्तु' सूत्रस्य वरेण्यटीकाम् ॥२२१॥ तथाऽधिकारे वरभावनाख्ये,
कैवल्यभाजः शिवसौख्यलब्धुः । श्रीमज्जयानन्दविभोश्चरित्र
मुत्साहतो वाचयितुं प्रवृत्ताः ॥२२२॥ (युग्मम् ) व्याख्यानशैल्या अतिसुन्दरत्वात्,
सुश्रोतृवर्गे हि रसोऽतिजातः । ततश्च वाचामृतपानहेतोः,
सच्छ्रावकौघः समगस्त तत्र ॥२२३॥ तथा च योगीश्वर-नीतिसूरि
वर्षतुकाले समकारयत् सः । चतुर्दशाङ्काङ्कितपूर्वनाम,
तपो गरिष्ठं सुकृतैर्वरिष्ठम् ॥२२४॥