________________
४३३
चातुर्मासार्थे विमर्षः। तथापि चाऽऽस्माकविहारकार्याद्,
दूयेत चेतो यदि युष्मदीयम् । तदा भविद्भिः परिलेखनीय
महम्मदावादपुरे तदर्थम् ॥१७३॥ अहम्मदावादपुराधिवासि
श्रेष्ठीश्वराश्चेद्यदि युष्मदीयम् । अङ्गीकरिष्यन्ति वचः प्रमाणं,
तदा चतुर्मास इहाऽस्मदिष्टः ॥१७४॥ संघस्य मुख्या गुरुवर्यवाक्य
ममंसताऽतीव सुयुक्तियुक्तम् । ततोऽलिखन् राजपुरे सुपत्रं,
श्राद्धोत्तमानामुपरीत्थमेते ॥१७५॥ सूरीश्वराणां सुचरित्रभाजां,
वर्षतुवासं खलु संविधातुम् । संमिल्य संघेन ततोऽनुमत्य,
सुनिश्चितं सादडिनामपुर्याम् ॥१७६॥ अन्यच्च सूरीश्वरपुण्यदेहो,
दौर्बल्यभाग् रोगपरीतवाश्च । अतो विनेतुं भवदाग्रहोऽयं,
विचारपूर्वं परिवर्तनीयः ॥१७७॥ गन्तुं न दास्याम इतश्च पूज्यान्,
अहम्मदावादपुराय सूरीन् ।