________________
३९५
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् पन्यासपूज्यपदभाग्-गणिनायकस्य,
श्रीसंपदादि-विजयस्य विरक्तशिष्यः । जीनो जयन्त-विजयाऽभिध उच्चबोधि
श्चारित्ररत्नमधिपाल्य दिवं गतोऽस्ति ॥७२॥ मालिनी - चरणविजयनामा गौरवाऽङ्ग्यब्जसेवा
निरवधि-परिलीनः सद्विनेयो द्वितीयः । श्रमयति बहु शास्त्रे वाङ्मयादौ सुबुद्धिः,
प्रथयति यश उच्चैरुज्ज्वलं सर्वमह्याम् ॥७३॥ चरणविजयनाम्नो ज्ञान-शीलैकधाम्नो,
__ मुनिवरविदितस्य (?) शिष्यवर्योऽस्ति शिष्टः । सुकृतिपर-सुनीतिाययुग् न्यायनामा,
जिनपतिगदित-श्रीशासनस्याऽनुसर्ता ॥७४॥ उपजातिः - सद्धीर-विद्याविजयस्य शिष्यः,
प्रकाशनाम्ना विदितश्च लोके । चारित्रशीलः प्रतिभात्यजत्रे,
चाऽधीयमानो निजशास्त्रमस्ति ॥७५॥ गीतिः - श्रीमदाचार्यगणाऽग्र-गण्यमानविजयनीतिविभोः ।
आज्ञोद्वाहिमुनीनां, नामोल्लेखमिह क्रियते मयका ॥७६॥