________________
३७४
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् श्रीसंघ-बह्वाग्रहतश्चतुर्मा- . --
स्यामेष शास्त्रार्णव-पारदृश्वा ॥११०॥ गीतिः - राजनगरीय-वाडी-लालच्छगनलाल इहोपधानम् ।
कारयामास विधिना, महता महेन स बहुस्त्रीपुरुषैः ॥१११॥ रेमन्ताऽचलतीर्थो-द्धारार्थं यथाशक्ति वसुदानम् ।
अकृषत सकला इभ्या, आष्टाहिकमहामहं बहुचारुम् ॥११२॥ उपजातिः - मृगाङ्क-रन्ध्राऽङ्कमहीमिताऽब्दे (१९९१),
सत्पादलिप्ते नगरे जनानाम् । अत्याग्रहाद्वार्षिकवासमेष,
चरित्रनेता कृतवान् सुखेन ॥११३॥ अष्टाह्निकाऽनेकमहामहं हि,
शान्त्यादिक-स्नात्रसमर्चनाऽऽदि । समस्त-साध्वीजनपाठशाला
संस्थापनं चारुमहोपधानम् ॥११४॥ सीपोर-वासी सुकृती च वाडी
लालो हठीसिंह उदारभावः । चकार सर्वं स्व-बहुव्ययेन, __शत्रुञ्जये पावन-तीर्थमध्ये ॥११५॥ (युग्मम्) द्वि-नन्द-नन्दैकमिते सुवर्षे (१९९२),
श्रीविक्रमार्केण विनिर्मिते वै । आचार्यवर्या विजयादिनीति
सूरीश्वराः शिष्यसमूहसार्धम् ॥११६॥