________________
३०२
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् तस्य स्वसा श्रीमथुरीतिनाम्नी,
वैराग्यरङ्गोदयतस्तदानीम् । श्रीनीतिसूरीश्वरसूरिसूर्या
च्चारित्रवित्तात् स्वगुरूत्तमाच्च ॥६५८॥ महाप्रभावौधविराजमानात्,
तदुत्तमश्लाघ्यकराम्बुजात् सा । दीक्षा ग्रहीतुं निजकर्म हन्तुमैच्छत्तदाऽऽत्मीयहिते स्वचित्ते ॥६५९॥
(त्रिभिर्विशेषकम्) ततः सुरम्यो रतिलालनामा,
स प्रेमचन्द्रात्मजसौम्यधामा । श्रीराधनादि( ? )पुरतो निरीय,
शकेश्वरे तीर्थवरे तदागात् ॥६६०॥ विनम्य सूरीश्वरपूज्यपादान्,
न्यवेदयत् स्वीयपुरागमाय । तथैव तत्रत्यसमस्तसंघो,
गुरूत्तमं प्रार्थयत प्रसिद्धम् ॥६६१॥ (युग्मम्) द्रुतविलम्बितम् - विजयनीतिमुनीन्द्रगणाग्रणीः,
सकलशास्त्रविशारदपारदः । जिनमते सुरतो जनतास्तुतः,
रसिकराधनपूर्भविनां हिते ॥६६२॥