________________
१५६
आचार्य-श्रीविजयनीतिसूरीश्वरचरित्रम् सम्प्रस्थाय ततः समस्तमुनिभिः सत्रा जिताऽऽत्मा सकः, प्रापत्पानसरं सुतीर्थ-मनघो यात्रामकार्षीन्मुदा । भक्त्या तीर्थपति प्रणम्य सुचिरं संस्तुत्य पद्यैर्नवैभव्यास्तत्र बहूपकृत्य विहरन्नागात्पुरं चेडरम् ॥८६२॥ तत्रत्याः सुजनाः समे गुरुवरानभ्यागतानादरादानिन्युः पुर-मुत्सवेन महता बेण्डाऽऽदितूर्याऽऽरवैः । श्रीमान् सद्गुरुरप्यसौ समुचितां रम्यामघौघाऽपहां । प्रादाच्चाऽमृत-देशनामतितरां संसार-दुःखच्छिदाम् ॥८६३॥ उपगीतिः - वर्वति चैतन्नगरं विशालं,
सद्भिः प्रशस्यं परमर्द्धिमच्च । शैलोपरिष्टादिह चैत्यमस्ति,
श्रीमञ्जिनेशस्य विशेषमुच्चैः ॥८६४॥ वाप्यस्तटाका मधुराऽम्बुकूपा,
अद्याऽपि नानोपवनानि सन्ति । तेनाऽनुमानं क्रियते जनानां,
वासोऽपि तत्रैव पुराऽस्ति चेति ॥८६५॥ अगादितः केशरियाजितीर्थ
यात्राचिकीः श्रीमुनिराजवर्यः । विलोक्य तत्राऽनुपमां जिनेश
सन्मूर्त्तिमत्यन्तमुदं बभार ॥८६६॥