________________
शंखेश्वरादि तीर्थानि वन्दित्वा वलभीपूरे गमनम् । श्रीमन्तमेनं प्रथमं जिनेशं,
इन्द्रवंशा
उपजाति:
-
ददर्श भक्त्या परया नुनाव ॥८४६ ॥
प्रस्थाय तस्मात् स हि वल्लभीपुरं, सम्प्राप सर्वैः : सह शिष्यमण्डलैः । सन्तस्थिवांश्चाऽत्र कियत्स वासरं, श्रीसंघ - बह्वाग्रहतो मुनीश्वरः ॥८४७ ॥
पुराऽत्र देवर्द्धिगणी सुविद्वान्, क्षमेतिपूर्वक्षमणाऽऽख्यसूत्रम् । संवाच्य कल्पादिकसूत्रमेष,
प्रारब्धवान् वाचयितुं सभायाम् ॥८४८॥
शारीरिकस्वास्थ्यचिकीरमुष्मिन्,
भैषज्यहेतोः समयं कियन्तम् ।
समस्थिताऽयं चरितस्य नेता,
स्वास्थ्ये च याते विजहार तस्मात् ॥८४९॥
उपाययौ वीरमगामनाम,
पुरं महात्मा मुनिराज एषः ।
समस्त-सङ्घीयमहामहेन,
प्राविक्षदेतन्नगराऽन्तरीड्यः ॥८५० ॥
धर्मोपदेशं परिषद्यनल्पं,
द्राक्षाऽऽदिपाकोपमया गिराऽसौ ।
प्रदाय सर्वान् सुजनान् सुवक्ता,
नितान्तमातीतृपदार्हतीयान् ॥८५१॥
१५३