________________
चन्द्रराजचरित्रम्
अथ ग्रन्थकर्तृ-प्रशस्तिः अथ ग्रन्थकर्तृ-प्रशस्तिःश्रीवर्द्धमानान्तजिनान्प्रणम्य, श्रीगौतमादीन् गणधारिणश्च । विद्वज्जनाम्भोजदिनेशकल्पं, संनौमि सूरीधरहेमचन्द्रम् ॥१॥ मेवाडभूपालमतिप्रसाद्य,बृहत्तपागच्छवप्रतिष्ठा । येनेह लब्धा तमहं नमामि, सूरिं जगच्चन्द्रमतिप्रशस्यम् ॥२॥ स्वच्छेऽत्र गच्छे यशसा वलक्षं, श्रीरत्नसूरिं मतिमत्सु दक्षम्। श्लाघ्यं च तच्छिष्यवरं प्रसिद्धं, वृद्धक्षमासूरिमहं स्तवीमि॥३॥ नानागमैश्वित्रितचित्तसद्मा, रेमे यदीये हृदि सिद्धिपद्मा । सौधर्मगच्छाम्बरभास्कराभं, देवेन्द्रसूरिं तमहं नमामि ॥४॥ तत्पट्टवारांनिधिजातमय्यं, कल्याणकन्दं सुषमातिचन्द्रम् । कल्याणसूरिं प्रणमामि नित्यं, प्रमोदसूरिं च तदीयशिष्यम् ॥५॥ चक्रे समस्तागमबोधवेद्याभिधानराजेन्द्र इति प्रकोषः । येनात्र लोके बहुकीर्तिभाजा, राजेन्द्रसूरिं तमभिष्टुवेऽहम्॥६॥ विद्याचणं श्रीधनचन्द्रसूरिं, वन्दे जगद्वन्दितवन्दनीयम् । प्रारम्भितग्रन्थविधेः समाप्तौ, कल्याणसन्दोहकरा ममैते ॥७॥ अल्पज्ञेनापि बोध्ये सरलपदमयेडनेकसत्पद्ययुक्ते, ग्रन्थे मद्योजितेऽस्मिन् क्वचिदपि धिषणादोषतो या प्रमादात्। स्याज्जाता चेत्रुटिमें सुमतिबुधजनैः सा सदा शोधनीया, चैवं ग्राह्या गुणास्तैः कथयति सततं श्रीलभूपेन्द्रसूरिः ॥८॥ वर्षौ गुणरत्ननन्दविधुके श्रीभेसवाडापुरे, पार्थं शान्तिजिनेवरं च सततं ध्यायन हृदम्भोजके । चातुर्मास्यनिवासमेत्य कृतयांश्चान्द्रं चरित्रं वरं, व्याख्याने सुखबोधनाय भविनां भूपेन्द्रसूरिः कृती ॥९॥
।। ३०८ ।।