________________
चन्द्रराजचरित्रम् - अष्टाविंशः परिच्छेदः चन्द्रनृपदीक्षाग्रहणम् जिगमिषामि । तदर्थ युवां यद्याज्ञां ददीयाथां तर्हि वरम्, अन्यथाऽऽज्ञां विनाऽपि चारित्रं लास्यामि, यत एवं कः क्षुधातुरो भविष्यति, यो मुखासन्नस्थमिष्टान्नभक्षणाय नोद्यतो भवेत् ? मूर्खादन्यः कोऽप्येवं कर्तुं नाहतीति मे मतिः । पत्युरिदं वचः श्रुत्वा द्वाभ्यामपि राज्ञीभ्यां स बहुप्रतिबोधितस्तस्य जगति रक्षणाय चातिचेष्टा कृता, परं यदा तस्याः किमपि फलं नाऽभूत्तदा ताभ्यां चारित्रग्रहणाय सहर्षमाज्ञा दत्ता।
ततो राज्ञा चन्द्रेण गुणावलीसुतं गुण-शेखरमाभापुर्या राज्यसिंहासने समुपवेश्य मणिशेखराद्यन्यपुत्रेभ्योऽपि राज्यखण्डं दत्त्वा तेऽतितोषिताः । इत्थं यथोचितं राज्यव्यवस्थां विधाय राजा चन्द्रो दीक्षाग्रहणस्य प्रगुणनं कर्तुमारेभे, तदानीं तदीया राज्ञीनां सप्तशती सुमतिनामा सचिवः शिवकुमारनटश्चैभिरपि तेनैव सत्रा चारित्रग्रहणेच्छा प्रकटिता, तन्निशम्य राजा चन्द्रः परां प्रीतिमुपगतः । यथासमयं गुणशेखरमणिशेखराभ्यां महताऽऽडम्बरेण दीक्षा महोत्सवस्य सामग्री सज्जीकृता । सपरिवारो राजा चन्द्रोऽर्थिभ्यो यथेप्सितं दानं ददानो मुनिसुव्रतस्वामिनः समीपं गतस्तद्वन्दनां च विधाय पुनस्तदुपदेशं श्रोतुं लगः, येन तद्वैराग्यभावः पूर्वतोऽप्यतिववृधे । एतदवलोक्येन्द्रादिदेवा अपि तस्य चन्द्रनृपस्यातिश्लाघां चक्रुः ।।
ततो गुणशेखरादिभी राजपुत्रैर्भगवान् प्रार्थितः- हे प्रभो ! मज्जनकः शिवसुखं प्राप्तुमीहते, तस्मात्तस्मै चारित्रं दातुं सहजकृपालुना भवता कृपा क्रियताम् । परं मुनिसुव्रतस्वामिन एष वृत्तान्तः सुविदित आसीत्, यद्यथा कांस्यभाजनोपरि जलबिन्दवो
|| २६६||