________________ चन्द्रराजचरित्रम् - द्वितीयः परिच्छेदः वीरमत्याः पुत्रकामना अथ श्रीचन्द्रराजसंस्कृतचरित्रस्य द्वितीयपरिच्छेदे वीरमत्याः पुत्रकामना दिने दिने शुक्लपक्षीयचन्द्रमिव वर्धमानं रमणीयतरं तं सुबालं दृष्ट्वा राजा वीरसेनो मनस्येव मुदमावहन्स्वजीवनं सार्थकममस्त / चन्द्रकुमारः प्रतिदिनं नवां नवां क्रीडामक्रीडदिति पितरौ तस्य रक्षणार्थ सयत्नावास्ताम् / वीरमती मनस्येव क्रुध्यन्ती तथावसरे प्राप्ते सा कुमारस्य जीवनोपरि विपगिरिमपि पातयितुमिच्छतीति पित्रोन विदितमासीत्किम् ? तया चन्द्रावत्याः परिणय एवासह्यमान आसीत् किं पुनस्तस्या गर्भतः पुत्रजन्मेति, तत्तु नितरामसह्यं भूत्वाऽऽपतितम् / शुद्धराजवीर्यप्रभवत्वादतीवमनोहरचन्द्रकुमारो बाल्यावस्थाया अस्फुटवचनेनासमग्रां वार्ता कथयित्वा सर्वेषां मनांस्यानन्दयति स्म / किन्त्वेका वीरमत्येव तत्रापवादरूपाऽभूत् / जैनधर्मे नितरामनुरक्ता सा चन्द्रावती विविधैः प्रकार राजानं प्रतिबोध्याऽऽखेटकादिसप्तव्यसनेभ्यो न्यवारयत् / तस्या वचनप्रभावेण राज्ञोऽपि हृदये जैनधर्मे रतिः प्रादुर्बभूव / अतोऽसौ सदाचरणं कुर्वन् मानुष्यं जन्म सफलं करोति स्म / यतः - पूजामाचरतां जगत्त्रयपतेः सङ्घार्चनं कुर्वतां, तीर्थानामभिवन्दनं विदधतां जैनं वचः शृण्यताम् / सद्दानं ददतां तपश्च चरतां सत्वानुकम्पाकृतां, || 13 ||