________________
शब्दरत्नाकरेअधोऽर्थे वध अदन्तं हैमादर्शेषु दृश्यते । अथ सान्तमथ अथो एष्वर्थेषु त्रयोऽप्यमी ॥१२७॥ कथिताः संशया-ऽऽरम्भ-साकल्येषु समुच्चये । अनन्तरार्थे च तथा प्रतिज्ञाप्रश्नयोरपि ॥ १२८ ॥ अन्वादेशेऽधिकारार्थे मङ्गले शं च सं सुखे ॥१२९॥
इति श्रीवादीन्द्रश्रीसाधुकीत्युपाध्यायमिश्राणां शिष्यलेशेन वाचनाचार्यसाधुसुन्दरगणिना विरचितायां शब्दरत्नाकरनामशब्दप्रभेदनाममालायां सामान्यः काण्डः षष्ठः ।