________________
षष्ठः काण्डः ।
९५
जोषं जोष्यं च सौख्येऽपि आनन्दे इयमिष्यते ॥ ९४ ॥ उपजोषं च समुपजोषम्, सर्वासु दिहि | समन्ततः समन्ताच्च, पुरस्तात् पुरतः पुरः ॥ ९५ ॥ पूर्वदेशेऽस्मिन् तु काले साम्प्रतं सम्प्रति स्मृतम् । शीघ्रे झटिति झगिति द्राक् प्राक् कान्ते समे मते ॥९६॥ सर्वकाले शश्वत् सश्वत् पुनरर्थेपि, सर्वदा । सदा सदं सनत् सनात् सना नित्यं च नित्यदा ॥९७॥ वारवारेण च वारंवारमसकृदर्थ | पुनः पुनः पुनर्मुहुमुहुर्मुहुरपि स्मृतम् ॥९८॥ सायं मान्तं दिनान्ते स्यादिने सान्तमुदन्तकम् । द्युराकाशेऽपि च दिवा, तत्क्षणे सपदीति च ॥९९॥ पदन्तं स्यादेकपदे, दीर्घकाले चिराच्चिरम् । चिरेण चिररात्राय चिरायाऽपि चिरस्य च ॥१००॥ रात्रौ मान्तं नक्तमुषा दोषा स्यात् पक्षणी निशि । उभयेद्युरुभयद्युर्निशान्ते तु उषा उषः ॥ १०१ ॥ अभ्यर्णेऽपि हिरुक् कान्तमल्पे किञ्चिच्च किञ्चन । मनाक् कान्तम्, वितर्के किं किमूत किमुताऽपि च ॥ १०२॥ वै नु कं किंखित् खिदाऽऽहोखिदुताहो च । आ हौ, हेतौ यद् यतो येन यदि तेन च तत् ततः॥१०३॥ चैत्र, संबोधने पाट् प्याट् हंहो आहो अहो अपि । है हौ व्यस्तौ समस्तौ च स्मरणाऽऽह्वानयोरपि ॥ १०४ ॥ हो हौ व्यस्तौ समस्तौ च हानेऽपि, अररे और ।