________________
शब्दरत्नाकरेपति-पाती ऋज-रिजाविडीडौ डान्तिमावुभौ । ह्रख-दीर्घादी प्रभुयुग विभुश्चाप्यथ वेतने ॥ १६ ॥" भृति-भृत्ये भर्म भर्मण्या कर्मण्याऽथ भारिके । भारवाड् भारवाहश्वाप्यथो वार्तावहे जने ॥ १७ ॥ वैवधिको विवधिको वीवधिकोऽथ भारके । भरो विवधो वीवधः स्यादथो भारयष्टिका ॥ १८ ॥ विहङ्गिका विहङ्गिमा, विक्रान्ते शूर-सूरको । कातरे भीरुको भीरुभीलुकस्त्रस्नु-त्रस्तकौ ॥ १९ ॥ भृशाकुले समुत्पिञ्ज उत्पिञ्जल-कपिञ्जलौ । अथो महेच्छेऽनुदार उदारोदात्तकावपि ॥ २० ॥ दयालौ तु कृपालुः स्यात् कृपारुरनुकम्पने । कारुण्यं करुणा हिंस्रे हिंसीरोऽपि, निबर्हणे ॥ २१ ॥ विशारणं विशरणं निर्वासन-प्रवासने । उद्वासनं, वधार्हे तु शैर्षच्छेदिकसंयुतः॥२२॥ शीर्षच्छेद्यो, मृते प्रेत-परेतौ, तदहेऽर्पणे । तदर्थ चोर्ध्वदेहिकमोर्ध्वदेहिकमित्यपि ॥ २३ ॥ ऊर्ध्वदैहिकमप्यग्न्याधाने तु मृतदाहगे। चिति-चित्या-चिताः प्रोक्ताः,ऋजौ तु प्राञ्जलोऽञ्जसः॥२४॥ अनृजौ तु शठः शण्ठो, धूर्ते व्यंशक-व्यंसकौ । शठ-शण्ठौ च षण्ढेऽपि, जालिके मायि-मायिकौ ॥२५॥
१ ह्रस्वर्षािवादी ययोस्तौ डकारान्तौ इड् ईड् चेत्यर्थः । २ अधिकरणे कृत् । ३ मृतदाहं गच्छतीति मृतदाहगस्तस्मिन् , अग्न्याधान विशेषणमिदम् ।