________________
द्वितीयः काण्डः। भद्रकाली महाकाली काली काला च कालिका ॥८३॥ हिमा हैमवतीयुक्ता विकराला करालिका। ...... महारौद्री सरौद्रीका जयन्ती विजया जया ॥ ८४ ॥ महाजया नन्दयन्ती नन्दिनी नन्दयाऽन्विता। ' सुनन्दा कुला नकुली, भैरव्यां चर्ममुण्डिका ॥ ८५ ॥ चामुण्डा चण्डमुण्डा च चर्चा चर्चिः सचर्चिका । स्कन्दे गाङ्गायनिर्गाङ्गो गाङ्गेयो भीष्मकेऽप्यमी॥८६॥ भृङ्गिगणे भृङ्गिरिटि गिरीटिश्च, तण्डुके। नन्दीश-नन्दिनौ नन्दिः, कमने क-कवी विधिः ॥८॥ विधा वेधाश्च द्वौ सान्तौ सर्वविद्-विदुषोरपि । विरिश्चन-विरिञ्ची च विरिश्चः परमेष्ठियुक् ॥८॥ परमेष्ठस्त्रिकवर्गद्वितीयकलितावमू । नाभिभूर्नाभिजन्मा च विश्वसृट् विश्वसृक् तथा ॥८९॥ द्रुहिणो द्रुघणस्तद्वद् द्रुघनोऽपि च शम्भुयुक् । स्वयंभूरथ गोविन्दे नारायण-नरायणौ ॥ ९० ॥ विष्वक्सेनो विश्वक्सेनो वृषाकपि-कपी विधुः। वेधा मुकुन्द-कुन्दौ च वासुदेवश्च वासुयुक् ॥ ११ ॥ जलेशयो जलशयोऽधोक्षजोऽक्षज एकपात् । त्रिपाद् द्विपद एतद् वृषाक्षः सुवृषोऽपि च ॥ ९२ ॥. कपिलो भद्रकपिलः सुभद्रो वासुभद्रकः । ...... १ धातरि । २ परमेष्ठि-परमेष्ठौ ।