________________
श्रीविजयधर्मसूरिभ्यो नमो.. मल्लिनाथमहाकाव्यम्।
प्रथमः सर्गः। महातेजःप्रमः सर्वमङ्गलोल्लासकारणम् । अर्हन् गणाश्रयं प्रीणन् जयताद् दृषभध्वमः॥ कुम्भजन्मा सितध्यानाञ्जलिपीतभवोदधिः । श्रीमन्मल्लिर्जिनो भूयात् पापवातापितापनः ॥ २॥ क्रमहीनो द्विजिह्वोऽपि क्षमाभारक्षमोऽजनि । आश्रयाद्यस्य स स्याद्वः श्रिये पार्श्वजिनेश्वरः ।। ३ ॥ वन्दारुसुरकोटीरचकोरीचक्रचुम्बिताः। जीयासुरिनाथस्य क्रमद्वन्द्वनखेन्दवः ॥ ४ ॥ अन्यानपि गतत्रासान् सच्छायाने विमलानलम् । नौमि मुक्तावलीमध्यनायकान् जिननायकान् ॥ ५ ॥ त्रिपद्यपि जिनानां गौर्जगद्गोचरचारिणी । सालङ्कारागिनी मे स्यात्तत्त्वपीयूषवर्षिणी ॥ ६॥ रजाक्षोदपयोदं श्रीविद्यायावतंसकम् । प्रणौम्यहं भवोद्यानभङ्गनागं गुरुं स्वकम् * ॥७॥ जगज्जैत्रस्य यस्यैते किङ्करास्ते सुरेश्वराः । तं जिगाय जिनो मारं कौमारेऽपि जवेनै यः ॥ ८ ।। तस्य श्रीमल्लिनाथस्य जगन्नाथस्य पावनम् ।
श्रोतृश्रोत्रसुधासत्रं सच्चरित्रमुदीर्यते ॥ ९ ॥ (१) गणश्रियमित्यपि (२)-नमलान-इत्यपि (३) जितेन्द्रिय इत्यपि। * आद्यान्त्याक्षरैर्गुरोनाम कवेः शोधयितुश्च रविप्रभ, श्रीकमकम् ।