________________
अर्हम् अथ चतुर्थः सर्गः।
जिनानामिव नाभेयः सरसामिव मानसम् । तरूणामिव कल्पद्रुर्भरतश्चक्रिणामिव ॥ १॥ देवानामिव सुत्रामा ग्रहाणामिव भास्करः । द्वीपानामादिमो द्वीपो जम्बूद्वीपोऽस्ति विश्रुतः ॥ २ ॥
... (युग्मम् ) तत्रास्ति भरतक्षेत्रं क्षेत्रवत् प्राज्यविस्तरम् ।। बहुधान्यायसामर्थ्य यतः प्रसरति क्षितौ ॥३॥ विदेहविषयस्तत्र ग्रामाकरपुराकुलः। नोपमानं नोपमेयमन्येषां दधते श्रिया ॥ ॥ ४ ॥ निधानानीव पुण्यानां कुण्डानीव यशोऽर्णसाम् । प्रतिग्राम प्रतिपुरं यत्र चैत्यानि रेजिरे ॥५॥ यत्र ग्रामाः पुरायन्ते स्वर्गायन्ते पुराण्यपि । उपमानविहीनानि नगराणि गुरूणि तु ॥ ६ ॥ तत्रास्ति मिथिलानाम नगरी श्रीगरीयसी। श्वस्तनीवचनानीव गुणिन्यो यत्र योषितः ॥ ७ ॥ यञ्चैत्यधूपवेलोत्थधूमवल्लीभिरम्बरे। अयनपटवासत्वं खेचरीणां वितन्यते ॥ ८ ॥ दधाना जगतीं श्लाघ्यास्तु रङ्गः शुभदर्शनैः । प्रासादा यत्र राजन्ते मत्तवारणभासुराः ॥९॥ यस्यां गणकृतं व्यर्थ शास्त्रेष्वेव निशम्यते। . विद्वद्गणकृतं विष्वक् प्रमाणं जिनवाक्यवत् ॥१०॥