________________
[स.४.१३३७-१३४७] वासुपूज्यचरितम् ४६५
धिगस्मारेणवो ऽप्येते भान्ति धन्यतमाः प्रभो। अनुयान्तीव ये ऽद्य त्वामस्मन्निश्वासपीडिताः ॥१३३७॥ त्वद्वाचा दुग्धवर्षिण्या जनन्येव वियोगिनः । अतिवालस्य जगतो गतिः काय भविष्यति ॥ १३३८ ॥ धर्मदुग्धाब्धिचन्द्रेण केवलज्ञानभानुना । त्वया विना जगन्मोहध्वान्तात्कस्वायतां प्रभो ॥१३३९॥ हहा महाधमतमा विश्वतारक नारकाः। प्रमोदं कलयामामुर्ये तनुं त्यजति त्वयि ॥ १३४० ॥ इत्यादिवाग्भिर्दलयन्हृदयान्यश्मनामपि । सुहृदेव रुदन्छक्रः स्वहृदैव व्यबोध्यत ॥ १३४१ ॥
॥ सप्तभिः कुलकम् ।। आक्रन्दतो ऽथ भूशकान्प्रबोध्य विबुधाधिपः । तत्कालकृत्ये त्रिदशानादिदेशाभियोगिकान् ॥ १३४२ ॥ वनादानीय गोशीर्षचन्दनैधांसि नन्दनात् । ऐन्यां ककुभि तैत्ता नाथाय रचिता चिंता ॥१३४३॥ ऐक्ष्वाकवेभ्यः साधुभ्यस्त्रिकोणा दक्षिणादिशि । पश्चिमायां चतुःकोणान्येभ्यस्तु विहिता चिता ॥१३४४॥ स्नानं क्षीराम्बुधे रैर्लेपं गोशीर्षचन्दनः ।। शक्रः स्वामितनोश्चक्रे ऽन्येषामन्ये ऽथ नाकिनः॥१३४५॥ देवदूष्येण देवेन्द्रो हंसाङ्केनाध्यवासयत् । जिनाङ्गं सुमनोरत्नभूषणैरप्यभूषयत् ॥ १३४६ ॥ मूर्तिमद्भिः प्रभोमेक्तित्रैविध्यसुकृतैरिव । .. रत्नैश्च रचयांचक्रुखिदशाः शिषिकात्रयम् ॥ १३१७ ॥ नत्वा कृत्वा प्रभु मूर्णिन शिपिकायां हरिबंधात् । .