SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ diwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww ४६४ श्रीवर्धमानमूरिविरचितं [स.४.१३२५-१३३६] नत्वा तस्थुमहाशोककीलिता इव निश्चलाः ॥१३२५ ॥ अन्ते मासस्य चन्द्रे ऽथोत्तराभद्रपदास्थिते ।। शुक्लाषाढचतुर्दस्यां स्वामी मोक्षोन्मुखो ऽजनि ॥१३२६॥ बादरे काययोगे ऽथ स्थित्वा स्थिरतरासनः । स्वामी रुरोध वाक्चित्तयोगी योगेन बादरौ ॥१३२७॥ काययोगेन सूक्ष्मेण काययोगं स बादरम् । रुवा रुरोध वाक्चित्तयोगौ मूक्ष्मौ जगद्गुरुः ॥१३२८ ॥ तातीयीकमिदं शुक्लध्यानं सूक्ष्मक्रियाह्वयम् । प्रभुः क्रमादमुं सूक्ष्मकाययोगमसाधयत् ॥ १३२९ ॥ अथोच्छिन्नक्रियं तुर्य शुक्लध्यानमशिश्रियत् । पश्चह्रस्वाक्षरोच्चारसमानसमयं विभुः ॥ १३३०॥ क्षीणकर्मार्थकर्तव्यो विलीनक्लेशसंततिः । अनन्तदर्शनशानवीर्यानन्दो गुरूद्गुरुः ॥ १३३१ ॥ ऊर्ध्वगो बन्धविध्वंसादेरण्डफलंबीजवत् । ऋजुनैव पथा शिष्यैः साकं लोकाग्रमासदत् ॥ १३३२ ॥ ॥ युग्मम् ॥ स्वामिना नारकेभ्यो ऽपि ददतानन्दवर्णिकाम् । महानन्दस्य बुभुजे स्वयं नवफली तदा ॥ १३३३ ॥ मोहचेष्टामपि तदाक्रन्दं संक्रन्दनादयः । विभोवियोगे कुर्वन्तो न शोच्यत्वदशामगुः ॥ १३३४ ॥ जगद्वन्धुः कृपासिन्धुः स्वाभिन्ख्यातो ऽसि किं ततः । दत्त्वास्मभ्यं महादुःखं महानन्दं श्रितः स्वयम् ॥१३३५॥ स्वर्गस्यापि नमस्यत्वं या निन्ये नाथ भूस्त्वया । विश्वाश्रुवारिधौ मक्तुं त्वद्वियोगे ऽद्य सेच्छति॥१३३६॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy