________________
[स.१. २८१-२९२] वासुपूज्यंचरितम्
ततो ऽवादीन्दा वाणी हरिणी हारिणीमसौ । स्वामिन्धुतसुधावस्तु सत्यमस्तु तवोदितम् ॥ २८१ ॥ इत्थमन्योन्यमालापसुखस्वादनमेदुरौ । . देवता दिसत्कृत्यं चक्रतुस्तौ प्रमोदतः ॥ २८२ ॥ गर्भानुभावतः कान्तिकीर्तिसौख्यसमृद्धिभिः । तद्गहे ऽथ मुदा सार्धं क्धे स्पर्धयाधिकम् ॥ २८३ ॥ तृतीये मासि संपूर्णे हरिण्या पुण्यगर्भभूः। .. रत्नाकरस्य पाने ऽभूदोहदो हृदि दाहदः ॥ २८४ ॥ अस्मिन्नपूर्यमाणे ऽस्याः शोषस्तोषहरो ऽजनि । अविच्छेदस्य खेदस्य सत्रं छत्रधरो ऽप्यभूत् ॥ २८५ ।। ते मन्त्रतन्त्रशास्त्रज्ञाः पृष्टास्तेन सहस्रशः । न दधार धियं कश्चिदीदृग्दोहदपूरणे ॥ २८६ ॥ कदापि मापतेरग्रे कुतूहलकलापकम् । दर्शयनमुनादर्शि दिष्टया को ऽपीन्द्रजालकृत् ॥ २८७ ।। पृष्टस्तेनायमित्याह पूरयिष्यामि दोहदम् । किं च ते भविता सूनुः कोऽपि विश्वविलक्षणः ॥ २८८ ॥ गृहस्याग्रे निवेश्याथ तत्र च्छत्रधरप्रियाम् । अदीदृशदसावैन्द्रजालिको जलधिं सुधीः ॥ २८९ ।। उच्छलच्छोणरत्नांशुमालामनार्कमण्डलम् । समुद्यदिन्दुसंदोहोपशान्तश्रान्तखेचरम् ॥ २९० ॥ माधुर्यधुर्यदुग्धोर्मिरसप्रीतसुधाशनम् । ऐन्द्रजालिकनिर्देशात्पातुं सा तं समुद्यता ॥२९१॥युग्मम्॥ ऐन्द्रजालिकविज्ञानप्रसादेन रसादसौ । एकेनैव तयापायि श्वासेन पयसांपतिः ॥ २९२ ॥