________________
इस.४. ४४७-४५८] वासुपूज्यचरितम्
३८९
भज मामन्यथानेन भस्मयामीत्युवाच तम् ॥ ४४७ ॥ .. अलुभ्यतो लोभवाक्याद्भीतिस्थानादबिभ्यतः । मूत्कारी स ज्वलन्गोलस्तस्याथो मौलये ऽपतत ॥४४८॥ दग्धो दग्धो ऽयमित्यन्तायन्त्यां खेचरस्त्रियाम् । स सस्मार नमस्कारं विलीनश्च विपञ्चयः ॥ ४४९ ॥ अथ बापददृश्यत्वं त्रपाटोपेन खेचरी। ... . नागिलो ऽभन्नमस्कारप्रभावोत्पुलकः पुनः ॥ ४५० । न रतिः पितृगेहे ऽपि त्वां विनेत्यादिवादिनी । चेटिको हाटितद्वारा तदा नन्दा तमाययौ ॥ ४५१ ॥ आकारेण गिरा गत्या तां नन्दां स विदन्नपि । खेचरीविप्लवाशी संकीर्णस्थो ऽवदत्ततः ॥ ४५२ ॥ अरविन्दाक्षि नन्दासि यदि तूर्ण तहि माम् । अन्यासि यदि तद्धर्मः स्वाम्यस्तु स्खलनं तव ॥ ४५३ ।। ततः स्थितस्वरूपैव खेचरी सा स्खलद्गतिः । तद्वत्तविस्मयस्तब्धमूर्तिरेवाग्रतः स्थिता ॥ ४५४ ॥ स तत्तत्कपटं वीक्ष्य कपटान्तरशङ्कितः । कृतलोचः स्वयं भेजे शीलभङ्गभयाव्रतम् ॥ ४५५ ।। दत्तं शासनदेव्याथ यतिवेषं स धारयन् । तत्पदीपपुरोभागमागत्येदमभाषत ॥ ४५६ ॥ आराध्य नन्दालोभेन नीतो ऽस्य द्भुतदीपताम् । अयि यक्ष विरूपाक्ष कृतकृत्यो ऽस्मि गम्यताम् ।।४५७।। दीपतो ऽप्यथ भाषाभूत्सेव्यो यावद्भवं भवान् । वेरिव न मे भाभिः स्पर्शदोपः प्रभो भवेत् ॥ ४५८ ।। अथ तादृग्महाशीलपीतया स्फीतविद्यया ।