SearchBrowseAboutContactDonate
Page Preview
Page 372
Loading...
Download File
Download File
Page Text
________________ श्रीवर्धमानसुरिविरचितं [स. ४. १२-२३] ३५२ भवा जन्तोरनन्ताः स्युर्नृभवः शस्यते परम् । यदन्तेऽमुना स्वर्गापवर्गाद्याः सुखश्रियः ।। १२ ॥ visit पुरुषार्थानां कर्तृत्वेन विदां मुदे । तान्विना तेन किं जन्मसंख्यापूरणहेतुना ।। १३ ॥ स श्लाघ्यः पुरुषो यस्मिन्पुरुषार्थाः स्फुरन्त्यलम् । सरस्तदेव सेव्यं हि यत्रापः प्रापुरास्पदम् ।। १४ । धर्मार्थकाममोक्षाख्याश्चत्वारस्ते जने श्रुताः । किं त्वर्थकाममोक्षाणां धर्म एव निबन्धनम् ॥ १५ ॥ तस्माद्विश्वार्थवृक्षाणां धर्मो बीजमिति ध्रुवम् । मन्वानैरमलज्ञानैर्जनैः सेव्योऽयमन्वहम् ।। १६ ।। एतस्य वृद्धये शुद्धबुद्धिभिर्गृहमेधिभिः । विज्ञाय सेवनीयानि व्रतानि द्वादशान्यपि ॥ १७ ॥ तत्राहिंसा च सत्यं चास्तेयब्रह्मापरिग्रहाः । यतेर्महाव्रतानि स्युः पञ्चैतानि तु सर्वतः ॥ १८ ॥ देशतो मूनि पञ्चाणुव्रतानि गृहशालिनाम् । दिग्भोगानर्थदण्डाख्यं त्रिधा ज्ञेयं गुणवतम् ॥ १९ ॥ सामायिकं च देशावकाशः पोषधसेवनम् । संविभागोऽतिथेश्चत्वार्येवं शिक्षात्रतान्यपि ॥ २० ॥ द्वादशानां व्रतानां तु सम्यक्कं जीवितं परम् । यथा गुणानामौदार्यं तपसां वा क्षमोच्चयः ॥ २१ ॥ सर्वज्ञे सद्गुरौ धर्मे या श्रद्धा हृदि निश्चला । सम्यक्त्वमिति तत्त्वज्ञैर्विज्ञेयं हितमात्मनः ।। २२ ॥ अस्य प्रभावाज्जायन्ते देवाः सेवाभृतो नृणाम् । विस्तारिण्यः श्रियः सर्वा यथा विक्रमभूपतेः ॥ २३ ॥ www
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy