________________
३०६ श्रीवर्धमानसरिविरचितं [स.३.५९३-६०४]
शृङ्गारो ऽधः शमस्तूच्चैरितीवेष्टं विभोळधात् ।। ५९३ ॥ नार्हतः प्रतिमः कोऽपीत्यर्थे काप्याभिमानिनी । कृष्टसर्पकरेवागाद्वेणीगुम्फनतत्परा ॥ ५९४ ॥ औत्सुक्यायावकभ्रान्त्या काप्यधादधरे ऽञ्जनम् । ज्ञापयन्तीव शृङ्गाररसपूरावधि विभोः ॥ ५९५ ॥ कापि कण्ठोचिते माल्ये त्वरावेशात्करस्थिते । आगादाज्ञेव पुष्पेषोरखपाणिः पुरः प्रभोः ॥ ५९६ ।। त्वरा विस्मृतहारापि वैरूप्यं कापि नाप यत् । तच्छ्यिं सुदती स्वामिवीक्षाहर्षस्मितैर्दधौ ॥ ५९७ ॥ इत्थयानन्दसंदर्भ पुरे बिभ्रदय प्रभुः। सप्रियः प्राविशत्सौधं योगी शुद्धं लयं यथा ॥ ५९८ ॥ प्रभुं प्रणम्य रम्यास्यां जयामापृच्छय भक्तितः। परिस्पन्दकृतोल्लासः शक्रः स्वावासमासदत् ॥ ५९९ ।। सुवर्णवज्रमाणिक्यमौक्तिकालंकृतीः पराः। पद्मावत्यै ददौ संख्यातीताः प्रभुपिता ततः ।। ६०० ॥ अशनांशुकताम्बूलालंकारादिप्रदानतः ।। विवाहो ऽभूत्तथान्योन्यं नोपमापि यथा जने ॥ ६०१ ।। लीलाविलासभूशलः स्वर्गाश्वेभरथांशुकैः ।। सन्मान्य वसुपूज्येन स्वदेशाय व्यसृज्यत ॥ ६०२ ॥
ततः श्रीवासुपूज्यो ऽसौ ज्ञानत्रितयदृष्टिभिः । दृष्टभूतभवद्भाविभावो ऽप्यभ्रान्तिभागपि ॥ ६०३ ॥ भवाब्धेर्जनमुद्धर्तुमात्तयनो ऽपि चेतसा । मोक्षलक्ष्मीपरीरम्भारम्भे संरम्भवानपि ॥ ६०४ ।। परं भोगफलं कर्म भोक्तव्यमिति निश्चयात् ।