________________
३०४ श्रीवर्धमानमूरिविरचितं [स.३.५६९-५८०]
तयोर्दर्शनमन्योन्यं वरवध्वोरभूत्ततः ॥ ५६९ ॥ एकत्रोद्तयोः पिष्ट्वा शमीपिष्पलयोस्त्वचौ । हस्तालेपं वधूहस्ते विदधुः सधवाःस्त्रियः ॥ ५७० ॥ लग्नस्याभ्यर्णभावेन तुमुले विनिवारिते । समयः समयो ऽस्तीति प्रोचैरुचरिते नरैः ॥ ५७१ ॥ वधूहस्तं स्वहस्तेन शुभलग्ने ऽग्रहीद्विभुः।। ऊर्मिकां चात्र सुत्रामा चिक्षेप करसंपुटे ॥ ५७२॥युग्मम् ॥ वन्दिवाकुलवृद्धाशीस्तूर्यमङ्गलगीतिभिः । हर्षकोलाहलैर्भूरि तदापूरि जगत्त्रयम् ॥ ५७३ ।। तारामेलो ऽथ तत्स्वान्तगुणर्द्धिपटयोः स्फुटम् । सकलः स्यूततां चक्रे दृग्ज्योत्स्नाहीरतन्तुभिः ॥ ५७४ ।। तया विश्वपतियुक्तो विश्वात्यद्भुतरूपया । प्रकामं कामनीयो ऽभूत्समयेव तपोगुणः ॥ ५७५ ॥ भक्त्यारोप्य विभुं कट्यां शक्रो वेदिगृहं प्रति । चचालैवं च पौलोमी वधूमुत्पाद्य तत्क्षणम् ॥ ५७६ ॥ अवियुक्तकरं बद्धाश्चलमेतद्वधूवरम् । मिलितं चलदानन्दि कीर्तिदानोपमं बभौ ॥ ५७७ ।। पूर्वद्वारेण तत्रेशः प्रविश्याथ तथा स्थितः । गीतेषु मङ्गलेषूच्चैर्मुमुचे नमुचिद्विषा ॥ ५७८॥ ज्वलनं मञ्जुलज्वालमाभितः कान्तया सह । खाम्यभ्राम्ययथा मेरुं दिनाधीशो दिनश्रिया ॥ ५७९ ।। लीलाविलासादेशेन मन्त्रीशस्त्रिजगद्विभोः। सुलक्षणान्परोलक्षानुत्तुङ्गांस्तुरगान्ददौ ॥ ५८० ॥ अथैवं वर्तिते मन्त्री द्वितीये मङ्गले विभोः ।