________________
.२९२
श्रीवर्धमानसूरिविरचितं [स.३.४२८-४३९]
तदा कक्षान्तरे क्षिप्त्वा वेत्रं वेत्रभृतां वरः । प्रणम्य पृथिवीजानि जानुस्थानो व्यजिज्ञपत् ॥ ४२८ ॥ प्राप्तः संप्रति भूपाल श्रीशालनगरोशितुः दूतो लीलाविलासस्य सुवेगस्त्वां दिक्षते ॥ ४२९ ॥ भूपल्लवलवोल्लाससंज्ञयाथ महीपतेः । अमूमुचदमुं दूतं संसदन्तः स दण्डभृत् ॥ ४३० ॥ चक्षुर्विशत एवास्य सभारत्नप्रभां पिबन् । देहातिझलत्कारैः कोमारैर्दूरतो हृतम् ॥ ४३१ ॥ किं कान्तिचक्रमोदमित्यन्तर्जातविस्मयः ।' चिरं निरूप्य पुंरूपनिश्चयाध्यायति स्म सः ॥ ४३२ ॥ किं शेषो ऽयं न न फणारत्नेष्वेव स भास्वरः। किं सर्वाङ्गमभो ऽर्को ऽयं न न स क दृशां प्रियः ॥४३३॥ किमिन्दुरेष चक्षुष्यो न न तस्याह्नि भाः कुतः। किमिन्द्रो ऽयं सदोद्योती न न सो ऽक्षिगगवणी ॥४३४॥ अये ज्ञातं यदुर्वीन्दोः पादाने विनयी स्थितः । तन्मन्ये वासुपूज्यो ऽयं कुमारो ऽत्र यथा श्रुतः ॥ ४३५॥ स एवं चिन्तयन्नेव तद्रूपहृतचेतनः । स्तम्भवत्संभवत्पीतिस्तस्थौ पुलकितो ऽश्रुक् ॥ ४३६ ॥ अथैष कम्पयशीर्ष हर्षाविष्टो जगाविति । मनोरथो ऽप्ययं यस्य धन्य एव स भूपतिः ॥ ४३७ ॥ श्रुत्वैवं वसुपज्यस्तं संभ्रमादभ्यधादिति । को ऽसौ क्षितिपतिर्धन्यः को वा तस्य मनोरथः ।।४३८॥ इत्युक्त्वा लब्धचैतन्यो नत्वा दूतः पति भुवः। माममस्कारविस्मारसज्जलज्जो व्यजिज्ञपत् ॥ ४३९ ।।