________________
[स. ३.४१७-४२७] वासुपूज्यचरितम् स्वेच्छया सेव्यमानांहिसपर्या चतुरैः सुरैः । भूषितां वसुपूज्येन प्रविवेश प्रभुः सभाम् ॥ ४१७ ॥
॥ द्वादशभिः कुलकम् ॥
सकङ्कणझणत्कारवारनारीकरोच्छ्रितैः । हादिहंसोपमैः सेव्यमुखाम्भोजस्य चामरैः ॥ ४१८ ॥ चक्रिणां गुणचक्राणां विनयं जनयन्विभुः । विश्ववन्यपदः पादपीठे पितुरुपाविशत् ॥
२९१
४१९ ॥
॥ युग्मम् ॥
भौ सभासदां दृष्टिींना सत्यपि पार्थिवे । स्थिते ऽपि पादपे भृङ्गी पुष्प एव निलीयते ॥ ४२० ॥ प्रेक्षिताः प्रभुणा सभ्याः शुभ्रश्यामलया दृशा । स्वं स्नातं मेनिरे गङ्गायमुनासंगमाम्भसि ॥। ४२१ ॥ गुरुभिर्ग्रन्थसंदोंहरू हैरप्यहताः सताम् । तदाभञ्जत्प्रभुभ्रान्तिर्वार्तालापकलीलया ।। ४२२ ॥ तदा प्रज्ञाततत्वो ऽपि कवीन्द्राणां नवोक्तिभिः । अपूर्वाभिरिव स्वामी सविस्मय इवाभवत् ।। ४२३ । प्रभुः कलानामालापैर्मोहं भिन्दन्सभासदाम् । तथेत्यमन्यत कापि मूढामपि पितुर्गिरम् ।। ४२४ । निवार्य वेणुवीणादिवाद्यं स्वादविदस्तदा । कर्णामृतमुचं वाचमशृण्वन्वदतः प्रभोः ॥ ४२५ ।। विभोर्लावण्यपीयूषपायिभिः सभ्यमानुषैः । निर्निमेषतया चक्रे तदा स्वर्गनिभा सभा ॥ ४२६ ॥ निरीक्ष्य सुतमीदृक्षमत्र क्षत्रपतिस्तदा । तद्विवाहमहोत्साहचिन्तार्तहृदयो ऽभवत् ।। ४२७ ॥
।।