________________
श्रीवर्धमानसारविरचितं [स.२.२०६९-२०८०]
तासां मुखे विकारं स वीक्ष्य व्याचष्ट विस्मितः । किं व्यलोक कचिद्धर्मलोपो धर्मरुचेरपि ॥। २०६९ ॥ ततः सस्मितमैक्षन्त तद्वयस्याः परस्परम् । किंचिद्विवक्षव इव क्षणकम्मोत्तराधराः ।। २०७० ॥ एका तासु जगौ ज्ञाता धर्मे धर्मरुचे रुचिः । यत्ते पट्टमहादेवीं ख्यात्येष भगिनीं जने ॥। २०७१ ॥ विजने त्विति जल्पन्ती रुक्मिण्या भगरभ्रुवा । भ्रमयन्त्या दृशौ मौलिमकम्पेन न्यषेधि सा ।। २०७२ ।। अर्धो चैतदभिप्रायं जानन्राजा तु संजगौ । क्ति दोषमथनं धिगर्के लक्ष्मभाषणम् ।। २०७३ ।। सतां गुणो ऽपि दोषत्वं प्रयात्यसहने जने । सुधारुचेरपि रुचिश्वका दहनायते ।। २०७४ । अथाह रुक्मिणी कोपकपिशोद्धान्तलोचना । सत्या यो यत्र लीनः स क्षीणस्तत्रेति लोकवाक् ॥ २८७५।। असतां हन्त दोषो ऽपि गुणः स्यात्तत्त्रिये जने । अन्धकारो ऽपि के हि वहत्या लोककारिताम् । २०७६ ॥ यदुक्तमनया तच्चेत्यत्यक्षं दर्शयामि ते ।
प्रत्येषि न तथापीष्टराग लुप्तविवेकदृक् ।। ३०७७ ॥ युक्त्या यत्र घटामेति तत्र प्रत्येति कः सुधीः ।
खे वीक्ष्य पुष्पितां वल्लीमिन्द्रजालं न वक्ति कः ।। २०७८ ।। तथापि तत्र प्रत्यक्षीकुरुषे यदि दूषणम् । तद्विचार्य किमयुचे रचयिष्यामि तौ प्रति ।। २०७९ ॥ एवमुक्तवति क्षोणिसुश्रोणिहृदयाधिपे ।
सायं तच्चरितं ते ऽय दर्शयामीति सावदत् || २०८० ॥ ॥ त्रिभिर्विशेषकम् ॥
२३६