SearchBrowseAboutContactDonate
Page Preview
Page 255
Loading...
Download File
Download File
Page Text
________________ [स.२.२०५७-२०६८] वासुपूज्यचरितम् २३५ आजहे च विजह च पथा दृक्शुचिनैव सा. ॥ २०५७ ॥ सप्तक्षेत्रीमहादानवितानविघसैरसौ। ....... .... धन्यैरन्यानि कार्याणि चकार न चकार वा ।। २०५८ ।। इति शीले च दाने च भवन्ती सा निदर्शनम् । दूरतो ऽपि वयस्येव मुक्त्यालिङ्गितुमैच्छयत ।। २०५९ ।। तपोभिः शोषितः स्वात्मा तुर्यषष्ठाष्टमादिभिः ।। तेषु धर्मेषु बन्धुत्वं तस्या धर्मरचिर्दधौं । २०६० ॥ तया पितेव भ्रातेव स मेने मनसा शुचिः । : .. सदामन्यत तेनापि मातेव भगिनीव सा ॥ २०६१ ॥ स तस्यास्तस्य सा धर्मक्रियां पातुं प्रमादतः। . दूरीबभवतु व चिरकालं कदाचन ।। २०६२ ॥ इयं धर्म धियं शुद्धामतीव दधती सती। स्ववारलुप्तये प्रेम रुक्मिणयां पत्युरैहत ॥ २०६३ ॥ रुक्मिणी तु सदा दध्यौ कदा वध्या सपत्न्यसौ। दोषं दत्वानृतमपि च्छलादपि वलादपि ॥ २०६४ ॥ सा नित्यमित्यसयाना दासीरासीनमत्सरा । तत्कलकुल ठुलं कर्तुमूचे धिगसतां धियम् ॥ २०६५ ॥ रुक्मिणीपार्श्वगो ऽन्येचुर्भूपालो जालनम॑ना । दृष्ट्वा धर्मरुचिं चैत्यपरिपाटीविहारिणम् ॥ २०६६ ॥ उवाच व्यक्तरोमाञ्चो धर्माधाने ऽस्ति को ऽपि न । अस्य पट्टमहादेवीधर्मबन्धोः समः पुमान् ॥ २०६७ ॥ ... .. ॥ युग्मम् ॥ इत्युक्तिभाजि नियाज राजनि व्याजनिश्चला । मुखं सखीनां वीक्ष्याधोमुखास्मयत रुक्मिगी ॥ २०६८ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy