________________
[स.११९४-१२०५] वासुपूज्यचरितम् ....
तत्कर्तुं नास्म्यलं वोढुमिव वत्सतरो रथम् । किं तु स्वदारसंतोषं कुर्वे ऽनर्थनिवारणम् ॥ ११९४ ॥ तनो दन्तांशुसंमूच्यमानादेशविधूदयः। . . अवोचदौचितीकल्पलतारोहावनिर्मुनिः ॥ ११९५ ॥ स्वबुद्धयाभिग्रहश्चक्रे यस्त्वया ज्ञाततत्त्वया । शममेष्यति तेनैव कृतिन्भवदवस्तव ॥ ११९६ ॥ परदास्परीहारस्तन्यते येन गेहिना।.. तेन सिद्धयङ्गनालीलं शीलं शीलितमुज्ज्वलम् ॥११९७॥ यस्तु स्वदारसंतोषी विषयेषु विरागवान् । गृहस्थो ऽपि स्वशीलेन यतिकल्पः स कल्पते ॥ ११९८ ।। विश्वप्रीतिपदास्वेकं शीलं भूषासु शस्यते । जायते येन जीवो ऽयं भूषितो निर्दृतेः प्रियः ॥ ११९९ ।। तत्कुमार त्वया सारतरं व्रतमगृह्यत । विशेषादप्रमत्तेन भव्य भाव्यमिहान्वहम् ॥.१२०० ॥ इत्युक्तो गुरुणावादीददीनमिति भूपभूः । नियमस्त्वत्प्रसादान्मे प्रभो प्रामाण्यमेष्यति ॥ १२०१ ।। अत्रान्तरे पवित्रान्तःकरणा करुणार्णवम् । गुरुं प्रणम्य शृङ्गारसुन्दरीति व्यजिज्ञपत् ॥ १२०२॥ मनोवचनकायेन शुद्धं श्रद्धानबन्धुरा । परपुंसः परित्यागं विधास्ये जीवितावधि ॥ १२०३ ॥ गुरुरित्याह वत्से त्वं सत्यं शृङ्गारसुन्दरी । शीलं स्त्रीणां हि गृङ्गारः क्षान्तिदर्शनिनामिव ॥ १२०४॥ इत्थं कृत्वा स्थिरीकारमग्राहयदभिग्रहम् । सनत्कुमारशृङ्गारसुन्दोविधिना मुनिः ॥ १२०५ ॥