SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ [ स २. ७५०-७६१ ] वासुपूज्यचरितम् तस्यां नाभाङ्कनामास्ति नाकनाथनिभो नृपः । पद्मवासेति यत्पाणिवासेनेवाभ्यधुः श्रियम् ।। ७५० ॥ तस्य प्रिया श्रियामेकसदनं मदनावली | अस्ति राजीवजीवातुवदना मदनायुधम् ।। ७५१ ॥ तदङ्गजा गजगतिर्जगति प्राप्तविश्रुतिः । आस्ते मुखानिलमिलद्भृङ्गा शृङ्गारसुन्दरी ।। ७५२ ॥ त्रैलोक्यरमणीभ्यो ऽपि रमणीयतमामिमाम् । कन्यामनन्यस्पृहया ग्रहयांचक्रिरे गुणाः ।। ७५३ ॥ भात्यसौ शशिलीलेन शीलेनैव मयात्र किम् | इतीवास्या बहिर्नास्यादति प्रीत्यामपि स्मितम् ॥ ७५४ इयं बालापि शीलस्य परमां भूमिकां गता । कदापि न ददात्येव खिमेव त्वरितं पदम् ॥ ७५५ ॥ चन्दनाद्यपि सेव्यं सा सिषेवे स्वच्छया धिया । मनः कामनया हंसगमना न मनागपि ।। ७५६ ॥ केला सफलीचक्रे कदापीयं न मामिति । विमुक्ता कुपितेनेव सांप्रतं शैशवेन सा ।। ७५७ ॥ यौवनं नलिनाक्षीषु विकारैक. कलागुरुम् । निर्विकारविलासेषु सा शिष्ययति संप्रति ।। ७५८ ॥ भूपे तदनुरूपाय वराय विहितोद्यमे । सांप्रत सर्वभूपानां रूपं चित्रेषु पश्यति ।। ७५९ ॥ स्वमातृपितृसदिय वयस्याविरहासहा । १२* विवाहं स्पृहये नाहमिति रमाह सखीषु सा ॥ ७६० | युग्मम्॥३ नदाकर्यं तदारयेभ्यो निर्मोदा मदनावली | आरोग्य तनयामङ्क सङ्केन हृदावदत ॥ ७६१ ॥
SR No.022560
Book TitleVasupujya Charitam
Original Sutra AuthorN/A
AuthorJain Dharm Prasarak Sabha
PublisherJain Dharm Prasarak Sabha
Publication Year
Total Pages492
LanguageSanskrit
ClassificationBook_Devnagari
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy