________________
सन्तोष एव सुखस्य कारणामति सर्वत्र उपदिश्यते, एतमेव च सर्वशास्त्राणां मूलम् । निर्मल- चित्ताय निर्मल शरीरमपि आवश्यकम् । प्रतिदिनं सूर्योदयात् प्राक् जागरणं, प्रतिदिनं
स्नानं, दन्तधावनं, निर्मल-वस्त्राणां च धारणम् इत्यादयः गुणाः शरीरमपि पुष्टं स्वस्थं च कुर्वन्ति ।
तृतीयं वैशिष्ट्यमस्ति - नारी सम्मानमिति । 'यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः' इति मनूक्तिः । सर्वत्र नारीषु आदरभावः अस्माकं संस्कृतिः । यथा मातुः सम्मानं क्रियते, तथैव अन्यासां नारीणामपि स्यात् इत्यावश्यकम्। 'मातृवत् परदारेषु' इति सारः ।
चतुर्थं वैशिष्ट्यमस्ति अतिथि सत्कार इति । सर्वदेवमयः अतिथिः इति किञ्चित् शास्त्रम् । गृहमागतः अतिथिः अस्माकं सम्मानमर्हति । निर्धनोऽपि जनः यथाशक्ति जलेन मधुर वचनैश्च तं सम्मानयितुं समर्थ एव ।
78