________________
Teaching Point: विद्वस्-declension
पञ्चदशः
मैक्समूलरः
पाठः
वाद्यम्
प्रवत्त
भवन-प्रथित विद्वान विद्वद्-धौरेय सुप्रथित वि+स्मि (स्मय)
प्रभृति परिशीलनम्
भाषान्तरम् कृतिः अनु+रंज् विदेशेषु अपि अनेके भुवन-प्रथिताः संस्कृत-विद्वांसः अजायन्त, यथा-सर विलियम जोन्स, डा० जे०जी०वूलर,वैलण्टाइन,कीलहानमोनियर विलियम, डा० हर्मन जैकोबी, मैक्समूलर मैकडानल, कीथ-प्रभृतयः । एतेषु विद्वत्सु विद्वद्-धौरेयस्य मैक्समूलरस्य नाम भारते सर्वत्र सुप्रथितम् ।
मैक्समूलर 1823-तमे वर्षे अजायत । सः मातृभक्तः आसीत् । शैशवे मैक्समूलराय संगीतम् अतीव प्रियमासीत् । 'पियानो' तस्य प्रियं वाद्यम् अवर्तत । यदा मैक्समूलरः विश्वविद्यालये छात्रः आसीत् तदा एकदा ऋग्वेदं पठित्वा सः भृशं व्यस्मयत । तदैव एकदा फ्रांस-देशं गतः सः विदुषः वर्नफ-महोदयस्य वेद-विषयकाणि भाषणानि आकर्णयत् । तदा प्रभृति वर्नफ-महोदयं स गुरुम् अमन्यत संस्कृतस्य अध्ययनं प्रति च प्रवृत्तोऽभवत् । इंग्लैण्ड-देशस्य आक्सफोर्ड इति नाम विश्वविद्यालयमपि गत्वा सः संस्कृतस्यैव परिशीलनं कृतवान् ।
तस्मिन् एव विश्वविद्यालये सः संस्कृतस्य प्राध्यापकोऽभवत् । ऋग्वेद-विषयकं स्वं कार्य स तत्रैव प्रणीतवान् । अपि च, हितोपदेश-मेघदूतयोः भाषान्तरमपि तेन कृतम् । संस्कृत-साहित्यस्य इतिहासः संस्कृत-व्याकरणं चेति द्वौ ग्रन्थौ अपि तस्य कृती।
St
भारताय भक्तिः भारतीयेभ्यः च स्नेहस्तस्य हृदये सदैव अवर्तत । भारतीयाः अपि तस्मिन् अनुरज्यन्ते स्नेहेन च तं मोक्षमूलर इति कथयन्ति ।
1gminsombro brsavita
55