________________
Teaching Point: आत्मनेपद-लङ्
नवमः
स्वतन्त्रता-संग्रामः (क)
पाठः
आयलयत यधभेटनीति अवलम्ब योजक अनुशासन-सत्रमा समाज-सेवकः धर्म-प्रवर्तक
शिक्षा-शास्त्री महत्त्वम् भावना पुरा भारतीयेषु एकतायाः अभावः आसीत् । एतत् दृष्ट्वा अनेके वैदेशिकाः अत्रागच्छन् अस्मान् चाजयन् । अनन्तरम् आंग्लीयाः अत्रागच्छन् । भारतम् आयत्तं कर्तुं षष्टि वर्षाणि ते अयतन्त । अस्मिन् काले महाराष्ट्रस्य पेशवानाना-साहबः (द्वितीयः), मैसूरस्य टीपू सुल्तानः, इन्दौरस्य च यशवन्तरावहोल्करःआंग्लीयैः सह प्रतिपदम् अयुध्यन्त । परम् आंग्लीयाः चतुराः आसन् । ते भेदनीतिम् अवलम्ब्य क्रमेण सर्वमेव भारतम् आयत्तमकुर्वन् ।
1857-तमे वर्षे भारतस्य प्रथमः स्वतन्त्रता-संग्रामः अभवत्। अस्मिन् संग्रामे अनेके वीराः आसन्, यथा-मंगल पांडे, धुन्धुपन्त, नाना साहब पेशवा, बहादुरशाह जफरः, झाँसी-रानी लक्ष्मीबाई, तात्या टोपे, कुँवरसिंहः चेत्यादयः । परम् एतेषां सर्वेषां वीराणां योजकं किमपि. अनुशासन-सूत्रं नासीत् । अस्मात् एव कारणात् काऽपि योजना सफला नाभवत् ।
तदनु राजाराममोहनरायः, परमहंसः रामकृष्ण-देवः, अरविन्दघोषः, स्वामिदयानन्दः, सर सैयद अहमद खाँ अन्ये चापि केचित् समाजसेवकाः, धर्म-प्रवर्तकाः शिक्षा-शास्त्रिणः च स्वतन्त्रतायाः विचारान् महत्त्वं च सर्वत्र प्रासारयन् । एतेषां प्रयत्नैः स्वतन्त्रतायाः भावना सर्वत्र प्रसृतवती ।
32