________________
Teaching Point: तव्य यही मितिका
सप्तमः
पत्रम मित्रं प्रति
पाठः
atmidioवातजाति हो कि निकायकाहीही चिरम् सम् + पद् वृत्तान्तः ग्रह वस्तुतः अभियन्ता अनुसन्धानम्या वृत्तिः तावत् यावत् पुरातन अपि च गृध् महत्त्वाकांक्षा व्यवस्थित मनीषा मन् नि + वेदय
सी-3/26, रोहतक-मार्गात्,
नवदिल्लीतः
29-8-2002 प्रिय मित्र संदीप,
अत्र कुशलं, तत्रास्तु । प्राप्तं ते पत्रम् । चिरमुत्सुकः आसम् ते पत्रमधिगन्तुम् । ज्ञातः च सर्वः वृत्तान्तः । मासेनैव परीक्षा सम्पत्स्यते । अस्याः परीक्षायाः अनन्तरं नवम्यां कक्षायां के विषयाः अस्माभिः ग्रहीतव्याः इति त्वया अहं पुष्टः । अस्मिन् विषये मया बहु विचारितम् । अत्रास्ति च मे सम्मतिः - _____ वस्तुतः ये अपि विषयाः अस्मभ्यं रोचन्ते ते एव अस्माभिः पठितव्याः। तेषु एव कृत-परिश्रमाः छात्राः प्रसीदन्ति सफलतां चाधिगच्छन्ति । प्रायेण तु मेधाविनः छात्राः चिकित्सकाः अभियन्तारः वा भवितं चिन्तयन्ति । नास्ति तत्र काचित् अपि हानिः । परं चिन्तयामि यत् कथं न मया भौतिक-शास्त्रं पठित्वा तस्मिन् एव विषये अनुसन्धानं कर्तव्यम् ? अस्यां वृत्त्यां नास्ति बहु धनं, नास्ति बहु सुखं च । परं किम् एतत् धनादिकमेव जीवनस्य सर्वस्वम् ?
किं त्वमपि न चिन्तयसि यत् विज्ञान-क्षेत्रे अस्माकं देशे न तावती उन्नतिः दृश्यते यावती वर्तते अन्येषु देशेषु । अतः कथं न बहुभिः जनैः विज्ञानं पठित्वा अत्रापि किञ्चित् कर्तव्यम् ? अतः देशस्य आवश्यकतां दृष्ट्वा वयमपि जीवने वैज्ञानिकाः भूत्वा देशम् उन्नयेम ।
विज्ञान-विषयेण सह अस्माभिः संस्कृतमपि पठितव्यम् । संस्कृतस्य पुरातनं सुललितं साहित्यं पठित्वा वैदेशिकाः अपि चमत्कृताः अभवन्, तत् च अस्माभिः अपि पठितव्यम् । अपि च, संस्कृते अस्ति पुरातनं विज्ञान-साहित्यमपि । तत् पठितुं संस्कृतस्य विज्ञानस्य च द्वयोः एव ज्ञानम् आवश्यकम् ।
24