________________
Teaching Point: (i) क्त्, (ii) इदम्-declension
षष्ठः
पण्डित-पुरन्दरः अम्बिकादत्त-व्यासः
पाठः
विश्रत
प्रानी अन्तरायः
पुरन्दरः गद्यम् निकष: साहित्यिक समकालिक प्रांजल मारोचिष्ण अतिरिच
शतावधान प्रशंस्की रुच मा गद्यं कवीनां निकषं वदन्तीति साहित्यिकानां मण्डले प्रसिद्धा उक्तिः । संस्कृत-साहित्ये पद्ये एव रचना अधिकम् अधिगम्यते। गद्यस्य लेखकाः न सन्ति बहवः । सुबन्धुः दण्डी बाणभट्टः चेति त्रयः एव विश्रुताः गद्ये कृतिकाराः । अम्बिकादत्त-व्यासेन अपि गद्ये एव लिखितम् । श्री व्यासः हिन्दी-भाषायाः प्रसिद्धस्य लेखकस्य भारतेन्दु-हरिश्चन्द्रस्य समकालिकः आसीत् ।।
श्री व्यासः संस्कृते शिवराजविजयः इति नाम उपन्यासं लिखितवान् । शिवाजी-वीरस्यैव कथात्र गुम्फिता । हिन्दी-भाषायाः उपन्यासस्य शैली एव तेनात्र अनुसृता । उपन्यासे द्वादश निःश्वासाः वर्तन्ते । भाषाऽस्ति अतीव प्रांजला सुमधुरा सुललिता च । उपन्यासोऽयम् अतीव रोचिष्णुः । शिवराजविजयमतिरिच्य पञ्चाशत् अन्यान्यपि पुस्तकानि हिन्दी-भाषया संस्कृत-भाषया चानेन प्रणीतानि ।
किमा श्री व्यासः शतावधानः आसीत् । सः संस्कृतेन पद्यानि अपि प्रणीतवान् । श्री भारतेन्दुना अपि तस्य कविताः प्रशंसिताः । एकया घटिकया शतं श्लोकान् स प्रणयति स्म । शास्त्रार्थाः अपि तस्मै रोचन्ते स्म । सर्वदा सर्वत्रैव शास्त्रार्थेषु तस्य विजयोऽभवत् । आर्थिकाः अन्तरायाः तेन प्रतिपदम् अनुभूताः ।
देशस्य अनेकाभिः सभाभिः अनेकैः पदैः पदकैः च स सम्मानितोऽभवत् ।
20