________________
Teaching Point : (i) क्त वत् (ii) सः एषः + anv consonant)
JN (विसर्गलोप)
द्वितीयः
संगति-प्रभावः
पाठः
शूकरः अनु+सू (सर) उपरि प्र+ह (हर्) आर्यः 20 विसदश
गवाशनः आवासः
उच्चैः आ+क्रुश् शीलम् । अन्तरा
प्र+आप
श्र
भिद्
आसीत् निषध-देशे चित्रसेनः नाम नृपः । स कदाचित् मृगयार्थं वनं गतवान् । तत्र स कञ्चन शूकरं दृष्ट्वा तम् अनुसृतवान् । अचिरमेव स गवाशनानाम् आवासं प्राप्तवान् । गिरिकः नाम कश्चित् शुकः वृक्षस्योपरि स्थितः आसीत् । एष दूरतः एव नृपं दृष्ट्वा 'प्रहरत प्रहरत! मारयत मारयत! एतस्मात् सर्वस्वं हरत' इति उच्चैः आक्रोशत् । तत् श्रुत्वा नृपः विस्मितोऽभवत् दूरतः एव चान्यत्र चलितवान् । chunt
अचिरमेव स मुनीनाम् आश्रमं प्राप्तवान् । तत्र एकः अन्यः शुकः तं दृष्ट्वा उदितवान्-आर्य, प्रविश, स्वागतम्! अये, जलं फलानि च आर्याय आनय इति ।
तत् श्रुत्वा विस्मितः नृपः शुकं पुष्टवान्-एतस्मिन् एव वने एकः अन्यः शुकः अपि वसति । स परुषाणि वचनानि वदति त्वं च मधुराणि एव । त्वमपि शुकः, सोऽपि शुकः । समाना एव जातिः । कथं युवां विसदृशौ शीलेन । कथमेतत् अन्तरं तं त्वां चान्तरा ?
शुकः प्रत्युदितवान्-श्रीमन्, न केवलं जातिः एव समाना, आवां सहोदरौ । तं गवाशनाः नीतवन्तः मां च मुनयः अत्र आनीतवन्तः । स गवाशनानां वचनानि आकर्णयति अहं च मुनीनाम् । अतः भिद्यावहे शीलेनावाम् । संगतेः एव एष परिणामः ।