________________
Teaching Point :
(i) तम् suffix
चतुर्विशतितमः
II पत्रम्-पितरं प्रति
पाठः
छात्रवासः अचिरम् सज्जा दूरी + भू स्नेहिन् श्रीमत् घोषय सूच् (सूचय) तदर्थम्
धनादेशः वशंवद
पूजनीयाः पितृचरणाः
छात्रावासतः, सादरं नमामि । अत्र कुशलं, तत्रास्तु
नवदिल्लीतः ।
-29-2-92 मम वार्षिकी परीक्षा अचिरमेव भविष्यति । अप्रैल-मासस्य पञ्चम-दिवसतः तस्याः उपक्रमः भविष्यति । तस्यै मम सज्जा अपि पूर्णा । केवलं गणित-विषये काचित् न्यूनता अस्ति, परं सा न्यूनता अपि अचिरमेव दूरीभविष्यतीति आशा । मम आचार्याः अतीव सहायकाः स्नेहिनः च । श्रीमतां च मातृचरणानाम् च आशीर्वादम् अधिगन्तुम् अहमेतत् पत्रं लिखामि ।
मई-मासस्य प्रथमे दिवसे अस्माकं प्राचार्यः परिणाम घोषयिष्यति । परिणाममहं भवते अचिरमेव सूचयिष्यामि । मई-मासस्य पञ्चदश-दिवसतः अस्माकं ग्रीष्मावकाशः भविष्यति । तदैव गहमागमिष्यामि । तदर्थं धनस्य आवश्यकता भविष्यति । अतः कृपया पञ्चाशत् रूप्यकाणि धनादेशेन प्रेषयन्तु भवन्तः । अम्बायै माधवाय च मम नमस्कारः । . वशंवदः
(OPEp) शचीन्द्रः se 91