________________
Teaching Point: (i) भवत्-(pronoun) (ii) ज्ञा-धातुः
द्वाविंशतितमः
त्रयः दकाराः
पाठः
असुरः उप+दिश् भवत् अक्षरम् दकारः अभिप्रायः साधु किंबहुना इन्द्रियम् बलवत्
VAZONOM
ईश्वरस्य त्रयः पुत्राः आसन्-देवः मनुष्यः असुरः च । ते त्रयः एव ईश्वरम् उपागच्छन् अवदन् च-भो पितः, उपदिशतु भवान् इति । ईश्वरः क्रमेण त्रीन् एव उपादिशत्, त्रिभ्यः एव चैतत् अक्षरमेव अकथयत्-'द' इति । उपदेशात अनन्तरं सः त्रीनेव अपृच्छत्-अपि जानीथ दकारस्य अभिप्रायम् इति ।
देवः अवदत्-जानामि । 'दमनं कुरू' इति भवतः अभिप्रायः । मनुष्यः अवदत्-जानामि । 'दानं कुरु' इति भवतःअभिप्रायः । असुरः अवदत्-जानामि । 'दया कुरु' इति भवतः अभिप्रायः । ईश्वरः एतत् आकर्ण्य प्रत्यवदत्-साधु! युक्तमेतत् ।
83