________________
Teaching Point :
(i) दातृ - declension
नवदशः
पाठः
लोभस्य परिणामः
लोभः परिणामः व्याघ्रः तीरम् स्वर्णम् कंकणम् गन्तृ दातृ श्रोतृ विश्वासः हन्तृ दर्शय् चिन्तयितृ मुग्ध स्रष्द हिंसा कारणम् दानशील होतृ महापंक: निमग्न
कश्चित् वृद्धः व्याघ्रः आसीत् । सः नद्याः तीरे अतिष्ठत् । तस्य हस्ते स्वर्ण-कंकणम् आसीत् । सः अवदत् - भोः भोः गन्तारः, तिष्ठत, स्वर्ण-कंकणस्य दाता अहम् अत्र तिष्ठामि । एतत् अधिगच्छत ।
परं कस्यापि श्रोतुः तस्मिन् विश्वासः नाभवत् । सर्वे अचिन्तयन् - सर्वेषां हन्ता एषः स्वर्ण - कंकणस्य लोभं दर्शयतीति । एवं चिन्तयितारः ते व्याघ्रात् भयभीताः अभवन् द्राक् च ततः अधावन् ।
तदा कश्चित् मुग्धः ब्राह्मणः तत्र आगच्छत् । तमपि व्याघ्रः तथैवावदत् । ब्राह्मणः अचिन्तयत् - भाग्येनैव एतत् सम्भवति । स्रष्टुः आज्ञां विना नेदृशः दाता सम्भवति । ब्राह्मणस्य विश्वासं दृढतरं कर्तुं व्याघ्रः अवदत्-हिंसायाः कारणात् मम सर्वः परिवारः अनश्यत् । अधुना दानशीलः होता चाहं धर्ममाचरामि ।
71