________________
Teaching Point :
(i) 'चतुर्' declension
सप्तमः
श्रीरामः
पाठ:
ज्येष्ठ राजकुमारः मिथः प्रगाढ़ भृशम् राज्ञी जननी ऋषिः राक्षसः यज्ञः इष् (इच्छ्)
विवाह स्वागतम् राज्यम् प्रज्ञा
30
coomuc
पुरा अयोध्यायाम् दशरथः नृपः आसीत् । तस्य चत्वारः पुत्राः आसन् - रामः लक्ष्मणः भरतः शत्रुघ्नः च । तेषु चतुर्षु रामः ज्येष्ठः आसीत् । चतुर्णामेव राजकुमाराणाम् मिथः प्रगाढ़ः स्नेहः आसीत् । चतुरः एव पुत्रान् दृष्ट्वा दशरथः भृशम् प्रसीदति स्म । दशरथस्य तिस्रः राज्ञ्यः आसन् । तासु कौसल्या रामस्य जननी आसीत् ।
एकदा ऋषिः विश्वामित्रः आगत्य दशरथम् अवदत्-"वने राक्षसाः मम यज्ञम् नाशयन्ति । यज्ञस्य रक्षायै रामम् लक्ष्मणम् च इच्छामि ।" दशरथस्य आज्ञया ऋषिः तौ अनयत् । तौ तत्र राक्षसान् नाशयित्वा यज्ञम् अरक्षतम् ।
25