________________
Teaching Point: (i) 'Fr' declension
षष्ठः
त्रयः मत्स्याः
पाठः
जलाशय कदाचित् धीवरः बहु तर्हि आजीविका वार्ता श्रुतिपथम्आ+ गम् त्यज् द्राक् युक्त भयम् अनागतम् विचारः उप+हस् भाग्यम् अनुकूल प्रतिकूल परिवारः प्र+नश्
पराहः काठिन्यम् भाग्यपर
11
/11
एकस्मिन् जलाशये त्रयः मत्स्याः वसन्ति स्म । कदाचित् तम् जलाशयम् दृष्ट्वा धीवराः अवदन् "बहून् मत्स्यान् अत्र पश्यामः । तर्हि श्वः अत्र एव आगमिष्यामः, एतान् मत्स्यान् च जालेन बद्धान् कृत्वा आजीविकाम् अर्जिष्यामः" इति ।
एषा वार्ता त्रयाणाम् एव मत्स्यानाम् श्रुतिपथम् आगच्छत् । एतत् आकर्ण्य तेषु त्रिषु प्रथमः मत्स्यः अवदत्-"आकर्णयथ न वा यत् एते धीवराः कथयन्ति । एतम् जलाशयम् त्यक्त्वा वयम् द्राक् एव अन्यत्र गच्छेम ।" तदा द्वितीयः मत्स्यः अवदत्-"न एतत् युक्तम् । भयेन कार्यं न भवति । अनागतस्य विचारः न युक्तः । यदि ते आगमिष्यन्ति तदा वयम् द्राक् एव एतत् स्थानम् त्यक्ष्यामः ।" तृतीयः द्वौ एव उपाहसत् अकथयत् च "युवाम् द्वौ एव मूौं । यदि भाग्यम् अनुकूलम् अस्ति तदा अत्र एव रक्षा भविष्यति । यदि भाग्यम् एव प्रतिकूलम् तदा अन्यत्र अपि नंक्ष्यामः।" .
21