________________
Teaching Point: (i) 'द्वि' declension
पञ्चमः
क्रीडायाः क्षेत्रम्
पाठः
विविध दलम् क्रीडकः उत्साहः निर्णायक खेलय रत पर स्पृश् स्व चरण कन्दुकम्
शब्दिका नियमः समान
क्रीडायाः क्षेत्रम् पश्यत । विद्यालयस्य छात्राः अत्र खेलन्ति । तत्र विविधाः क्रीडाः भवन्ति । प्रथमे क्षेत्रे कबड्डी भवति । एतस्याम् क्रीडायाम् द्वे दले भवतः । एकस्मिन् दले सप्त क्रीडकाः भवन्ति । द्वयोः दलयोः एव क्रीडकाः उत्साहेन खेलन्ति । एकः निर्णायकः अपि भवति । सः द्वे दले खेलयति ।
द्वितीये क्षेत्रे छात्राः "खो-खो"-क्रीडायाम् रताः सन्ति । एतस्याम् क्रीडायाम् प्रत्येकम् दले नव क्रीडकाः भवन्ति । एकस्य दलस्य क्रीडकाः परान् स्प्रष्टुम् प्रयत्नम् कुर्वन्ति, द्वितीयस्य दलस्य च क्रीडकाः स्वान् रक्षन्ति । ____ तृतीये क्षेत्रे बालाः चरणकन्दुकेन क्रीडन्ति । अत्र अपि एकः निर्णायकः अस्ति । तस्य हस्ते शब्दिका भवति ।
17