________________
Teaching Point: () 'नदी' declension
तृतीयः
हिमालयः
पाठः
शिखरम् सर्वदा हिमम् आच्छादित निर+गम् यथा वेगः सिच् (सिञ्च्) रूग्ण तापः
प्र+सद् पुरा प्रकृति संसक्तलोचन
हिमालयः भारतस्य उत्तरदिशायाम् स्थितः अस्ति । एषः पर्वतराजः अस्ति । हिमालयस्य शिखराणि अति उन्नतानि सन्ति । तानि सर्वदा हिमेन आच्छादितानि भवन्ति । का हिमालयात् नद्यः निर्गच्छन्ति, यथा-गंगा, यमुना, शतद्रुः विपाशा, इरावती, चन्द्रभागा, वितस्ता च इति । हिमालये नदीनाम् वेगः अति तीव्रः भवति । ताभिः नदीभिः कृषकाः क्षेत्राणि सिञ्चन्ति।
अत्र स्वास्थ्य-वर्धकानि स्थानानि अपि सन्ति । रुग्णाः तत्र गच्छन्ति स्वास्थ्यम् च विन्दन्ति । तापेन व्याकुलाः जनाः अत्र आगत्य प्रसीदन्ति ।