________________
किञ्चित्
प्रस्तुतमाला-विषयकम्
भाषा-मनोविज्ञान-शास्त्रिणां शोधैः भाषा-शिक्षणमपि कला-रूपेण उपस्थापितम् ।
अल्पादपि अल्पतरे समये अधिकस्य शिक्षणस्य स्पर्धा सर्वत्र दृष्टिपथमवतरति । कस्या अपि भाषायाः शिक्षणस्य चतस्रः विधा भवन्ति, तथाहि-श्रवणं, वदनं, पठनं लेखनञ्चेति । परं संस्कृत-सदृश्यै भाषायै पठनं तदवगमश्चैव प्राधान्येन लक्ष्यीकृतं स्याद् इत्यस्ति व्यवस्थिता मनीषा भाषा-शास्त्र-विदाम् । गौणरूपेण पठनविधायाः साधनरूपेण वदनादि-विधा अपि अनुशील्यन्ताम् । सत्यमेतत् यत् भाषा-भाषणेन छात्राणां विश्वासो वर्धते रुचिश्चापि वृद्धिं गच्छति । एतद् विचार्यैव अत्र ललितानि संस्कृत-पद्यानि, दैनन्दिन-व्यवहार-पराणि कानिचित् सरल-संस्कृत-वाक्यानि च पुस्तकारम्भे दत्तानि । अनुदिनम् एतेषाम् अनुशीलनेन छात्राणां संस्कृत-भाषां प्रति अनुरक्तिर्वर्धिष्यते इत्याशासे । भाषा-शिक्षण-विधानां प्रधान्य-गौण-व्यवस्थाया विस्मरणं न भवेत् इत्यावश्यकम् । लक्ष्ये स्पष्टे पन्था अपि स्पष्टो जायते ।
प्रत्येकं पुस्तक छात्रस्य आयुस्स्तरमावश्यकताञ्च विलोक्यैव प्रणीतम् । भाषा-ज्ञान-भित्तिः आदित एवं दृढमूला सुसंहता च भवेदिति दृशा सर्वमत्र क्रमिकं मितं नियतञ्चास्ति । प्रत्येकं शब्दः कयापि योजनयैव सन्निवेशितः । प्रस्तुत-मालायां शब्दा इत्थं प्रयुक्ताः, वाक्य-रचना एवमायोजिता व्याकरणञ्चेत्थं क्रमेण अल्पाल्पशः गुम्फितं येन बालः सारल्येनैव सर्वं शिक्षेत । क्रमिक-शिक्षणं क्रमिक विकासाय आवश्यकम् । भाषा-शिक्षणेन साकं साहित्यस्य रुचिरा ललिताश्चांशाः सन्निवेशिताः । संस्कृत-वाङ्मय-महोदधि मंथनोत्थानि कथा-रत्नानि पद्य-रत्नानि निदर्शन
भूतानि चात्र गुम्फितानि । अन्यच्च, विज्ञान-संस्कृति-सामाजिक-ज्ञानादि-विषयान् अन्तरेण पाठा अपि
चात्र सन्निविष्टा सन्ति । 0 प्रत्येकं पाठस्योपरि पाठ्य-संकेतेन पाठे यदुद्दिष्टं तदवगमे सौकर्यं भविष्यति । सन्धीनां । समासानां चाप्रयोगः सारल्यनिमित्तकः । पुस्तकस्यान्ते दत्तश्शब्दकोशः बालान् शब्दकोशस्यानुशीलनाय प्रवर्तयिष्यते । पाठेभ्यः व्यतिरिक्तमभ्यासेष्वपि अन्ये प्ररोचकाः बुद्धयुत्तेजकाः प्रयोगाः प्रश्नाश्च दत्ताः ।
_____ वस्तुस्थितिरियं यत् न वयं छात्रेषु बहु आशास्महे । शिक्षाविदां तर्कानुभवानुमोदितं वच यत् यावत छात्रेषु सम्भाव्यते तावत्येव ते कृत-प्रयत्नाः भवन्तीति शम् ।
-गम्भीरः