SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ ४३ तत्वार्थाधिगमसूत्र भाग-3 / अध्याय-५ / सूत्र-२८ मनुष्यादेर्देवत्वादीति, एवं यमादिपालनानर्थक्यम्, एवं च सति “अहिंसासत्यास्तेयब्रह्मचर्यापरिग्रहा यमाः शौचसंतोषतपःस्वाध्यायेश्वरप्रणिधानानि नियमा” इति आगमवचनं वचनमात्रम्, एवमेकान्ताध्रौव्येऽपि सर्वथा तदभावापत्तेः, तत्त्वतोऽहेतुकत्वमेवावस्थान्तरमिति सर्वदा तद्भावाभावप्रसङ्गः अहेतुकत्वाविशेषात् । न हेतुस्वभावतयोर्ध्वं तद्भावः, तत्स्वभावतयैकान्तेन ध्रौव्यसिद्धेः । यदा हि तोरेवासौ स्वभावो यत्तदनन्तरं तद्भावस्तदा ध्रुवोऽन्वयस्तस्यैव तथाभवनात्, एवं च तुलोनामावनामवद्धेतुफलयोर्युगपढ्ययोत्पादसिद्धिरन्यथा न तत्तद्व्यतिरिक्ततरविकल्पाभ्यामयोगात् तन मनुष्यादेर्देवत्वमित्यायातं मार्गवैफल्यमागमस्येति, एवं सम्यग्दृष्टिः सम्यक्संकल्पः सम्यग्वाग सम्यग्मार्गः सम्यगार्जव: सम्यग्व्यायामः सम्यक्स्मृतिः सम्यक्समाधिरिति वाग्वैयर्थ्यम्, एवं घटव्ययवत्या मृदः कपालोत्पादभावात् उत्पादव्ययध्रौव्ययुक्तं सदिति, एकान्तध्रौव्ये तत्तथैकस्वभावतयाऽवस्थाभेदानुपपत्तेः समानं पूर्वेण, एवमेतद् व्यवहारतः तथा मनुष्यादिस्थितिद्रव्यमधिकृत्य दर्शितम्, निश्चयतस्तु प्रतिसमयमुत्पादादिमत्तथा भेदसिद्धः, अन्यथा तदयोगात्, यथाह - सर्वव्यक्तिषु नियतं क्षणे क्षणेऽन्यत्वमथ च न विशेषः । सत्योश्चित्यपचित्योराकृतिजातिव्यवस्थानात् ।।१।। नरकादिगतिविभेदो भेदः संसारमोक्षयोश्चैव । हिंसादिस्तद्धेतुः सम्यक्त्वादिश्च मुख्य इति ।।२।। उत्पादादियुते खलु वस्तुन्येतदुपपद्यते सर्वम् । तद्रहिते तदभावात् सर्वमपि न युज्यते नीत्या ।।३।। निरुपादानो न भवत्युत्पादो नापि तादवस्थ्येऽस्य । तद्विक्रिययापि तथा त्रितययुतेऽस्मिन् भवत्येषः ।।४।। सिद्धत्वेनोत्पादो व्ययोऽस्य संसारभावतः ज्ञेयः । जीवत्वेन ध्रौव्यं त्रितययुतं सर्वमेवं तु ।।५।। तदित्थं उत्पादव्ययौ ध्रौव्यं चैतत् त्रितययुक्तं सतो लक्षणम्, अथवा युक्तं समाहितं त्रिस्वभावं सत् । यदुत्पद्यते यद्व्येति यच्च ध्रुवं तत्सत् अतोऽन्यदसदिति ।।५/२९ ।। भाष्यार्थ :उत्पादव्ययौ ..... अतोऽन्यदसदिति ।। G4LE, व्यय भने प्राव्य सत् वस्तु लक्ष छे. भ. उत्पाद, व्यय, प्रौव्य सत् वस्तुनु सक्षा छ ? तेथी 53 छ -
SR No.022542
Book TitleTattvarthadhigam Sutra Shabdasha Vivechan Part 03
Original Sutra AuthorN/A
AuthorPravin K Mota
PublisherGitarth Ganga
Publication Year2003
Total Pages248
LanguageSanskrit, Gujarati
ClassificationBook_Devnagari & Book_Gujarati
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy