________________
तत्त्वार्थाधिगमसूत्र भाग - २ / अध्याय-3 / सूत्र
भाष्य :
तेषु नरकेषु नारकाणां पराः स्थितयो भवन्ति । तद्यथा - रत्नप्रभायामेकं सागरोपमम्, एवं त्रिसागरोपमा, सप्तसागरोपमा, दशसागरोपमा, सप्तदशसागरोपमा, द्वाविंशतिसागरोपमा, त्रयस्त्रिंशत्सागरोपमा इति । जघन्या तु पुरस्ताद् वक्ष्यते 'नारकाणां च द्वितीयादिषु', 'दश वर्षसहस्राणि
प्रथमायाम्' (अ० ४, सू० ४३ - ४४ ) इति ।
-
૧૨૭
तत्रास्त्रवैः यथोक्तैर्नारकसंवर्तनीयैः कर्मभिरसंज्ञिनः प्रथमायामुत्पद्यन्ते, सरीसृपा द्वयोरादितः प्रथमद्वितीययोः, एवं पक्षिणस्तिसृषु, सिंहाः चतसृषु, उरगाः पञ्चसु, स्त्रियः षट्सु, मत्स्यमनुष्याः सप्तस्विति न तु देवा नारका वा नरकेषूपपत्तिमाप्नुवन्ति, न हि तेषां बह्वारम्भपरिग्रहादयो नरकगतिनिर्वर्तका हेतवः सन्ति (अ० ६, सू० १६) नाप्युद्वर्त्य नारका देवेषूत्पद्यन्ते, न ह्येषां सरागसंयमादयो देवगतिनिर्वर्तका हेतवः सन्ति (अ० ६, सू० २०), उद्वृत्तास्तु तिर्यग्योनौ मनुष्येषु वा उत्पद्यन्ते, मनुष्यत्वं च प्राप्य केचित् तीर्थकरत्वमपि प्राप्नुयुरादितस्तिसृभ्यः, निर्वाणं चतसृभ्यः, संयमं पञ्चभ्यः, संयमासंयमं षड्भ्यः, सम्यग्दर्शनं सप्तभ्योऽपीति ।
द्वीपसमुद्रपर्वतहदतडागनदीसरांसि वा ग्रामनगरपत्तनादयो विनिवेशा बादरो वनस्पतिकायो वृक्षतृणगुल्मादिः द्वीन्द्रियादयस्तिर्यग्योनिजा मनुष्या देवाश्चतुर्निकाया अपि न सन्ति, अन्यत्र समुद्घातोपपातविक्रियासाङ्गतिकनरकपालेभ्यः, उपपाततस्तु देवा रत्नप्रभायामेव सन्ति नान्यासु गतिस्तृतीयां यावत् ।
यच्च वायव आपो धारयन्ति न च विष्वग् गच्छन्ति आपश्च पृथिवीं धारयन्ति न च प्रस्पन्दन्ते, पृथिव्यश्चाप्सु विलयं न गच्छन्ति तत् तस्यानादिपारिणामिकस्य नित्यसन्ततेर्लोकविनिवेशस्य लोकस्थितिरेव हेतुर्भवति ।
-
अत्राह-उक्तं भवता 'लोकाकाशेऽव ऽवगाह: ' (अ०५, सू० १२), 'तदनन्तरमूर्ध्वं गच्छत्यालोकान्तात्' (अ० १०, सू० ५ ) इति, तत्र लोकः कः ? कतिविधो वा ? किंसंस्थितो वेति ?, अत्रोच्यते - पञ्चास्तिकायसमुदायो लोकः ते चास्तिकायाः स्वतत्त्वतो विधानतो लक्षणतश्चोक्ता वक्ष्यन्ते च, स च लोकः क्षेत्रविभागेन त्रिविधः - अधस्तिर्यगूर्ध्वं चेति, धर्माधर्मास्तिकायौ लोकव्यवस्थाहेतू, तयोरवगाहनविशेषाल्लोकानुभावनियमात् सुप्रतिष्ठकवज्राकृतिर्लोकः अधोलोको गोकन्धरार्धाकृतिः, उक्तं ह्येतद्—'भूमयः सप्ताधोऽधः पृथुतराश्छत्रातिच्छत्रसंस्थिताः' (अ० ३, सू० १) इति, ता यथोक्ताः तिर्यग्लोको झल्लर्याकृतिः, ऊर्ध्वलोको मृदङ्गाकृतिरिति । । ३ / ६ ||