SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ to विवृतिता ] सकलादेशविकलादेशौ, तत्र क्रमयुगपद्वृत्तगुणानां विविधरीतिप्रदर्शनम् । [१०१] पर्यायार्थं सर्व पर्यायभेदान् प्रतिपद्यते तदा त्वविवक्षितस्वजातिभेदत्वात् सकलं वस्त्वेकद्रव्यार्थाभिन्नमेपर्यायार्थाभेदोपचरितं तद्विशेषैका भेदोपचरितं वा तन्मात्रमेकमद्वितीयांशं ब्रुवन् सकलादेशः स्यान्नित्य इत्यादित्रिविधोऽपि नित्यत्वानित्यत्वयुगपद्भावैकत्वरूपैकार्थाभिधायी, यदा तु द्रव्यपर्यायसामान्याभ्यां तद्विशेषाभ्यां वा तद्यौगपद्येन वा वस्तुन एकत्वं तदतदात्मकं समुच्चयाश्रयं चतुर्थविकल्पे स्वांशयुगपवृत्तं क्रमवृत्तं च पञ्चमषष्ठसप्तमेषूच्यते तथाविवक्षावशात् तदा तु तथा प्रतिपादयन् विकलादेशः, ते हि द्रव्यपर्यायास्तस्य देशाः तदादेशेनादेश एको ह्यनेकदेश आत्माऽभिधीयते, तत्र द्रव्यार्थसामान्येन तावद् वस्तुत्वेन सन्नात्मा, पर्यायसामान्येनावस्तुत्वेनासन्निति, विशेषस्त्वात्मनि स्वद्रव्यत्वात्मत्वचेतनत्वद्रष्टृत्वज्ञातृत्व मनुष्यत्वादिरनेको द्रव्यार्थभेदः, तथा श्रुतप्रतियोगिनः पर्याया अस्वद्रव्यत्वानात्मत्वाचेतनत्वादयः, तद्रव्यक्षेत्रकालभावसम्बन्धजनिताश्च द्रव्यपर्यायवृत्तिभेदाः, तत्र द्रव्यार्थादेशात् स्वद्रव्यतया द्रव्यत्वम्, पृथिव्यादित्वेनाद्रव्यत्वं तद्विशेषैश्च घटादिभिः, क्षेत्रतोऽसङ्ख्याताकाशदेशव्यापितया, न सर्वव्यापितया, कालतः स्वजात्यनुच्छेदादभिन्नकालता; पर्यायादेशाद् घटादिविज्ञानदर्शनभेदाः क्रोधाद्युत्कर्षापकर्षभेदाश्च तथाऽन्तकालघृत्तस्ववर्तनाभेदात् कालभेदः, भावतो ज्ञत्वं सकलादेशत्वं विवक्षाधीनमुपपादयितुं प्रथमभङ्गमधिकृत्याह - द्रव्यार्थजात्य भेदात्त्विति, द्रव्यार्थानां द्रव्यार्थ नयविषयाणां सत्त्वनित्यत्वाभेदादीनां द्रव्यार्थत्वरूपैक जात्याऽभेदात्पुनः । सर्वद्रव्यार्थभेदान् सकलद्रव्यार्थविशेषान् । एवकारेण पर्यायार्थविशेषव्यवच्छेदः, पर्यायार्थविशेषाणां द्वितीयभङ्गविषयत्वेन तेषां प्रथमभङ्गेन प्रतिपादयितुमनभिप्रेतत्वात्, सकलद्रव्यार्थ - विषयकत्वादेव प्रथमभङ्गे सकलादेशत्वस्य सकलपर्यायार्थविषयकत्वादेव च द्वितीयभङ्गे सकलादेशत्वस्याभिप्रेतत्वादिति बोध्यम् । द्वितीयभङ्गमधिकृत्याह - यदा पर्यायजात्यभेदाश्चेति, पर्यायजातिः पर्यायत्वं तया सर्व पर्यायाणामभेदात्पुनरित्यर्थः । सर्वद्रव्यार्थाभेदसर्व पर्यायार्थाभेदयुगपद्विवक्षाधीनावक्तव्यत्वस्य सर्वद्रव्यार्थाभेदसर्व पर्यायार्थाभेदाकलितस्यैकांशतयैव विवक्षितत्वात्तृतीयभङ्गस्यापि सकला देशत्वमित्यभिसन्धिः । प्रथमद्वितीयभङ्गावधिकृत्य तृतीयभङ्गमधिकृत्य चोक्तम्-तद्विशेषेकाभेदोपचरितं वेति तत्र तृतीयभङ्गाधिकारे तत्पदेन द्रव्यार्थपर्यायार्थोभयपरामर्षः, तस्य विशेषः - अवक्तव्यत्वं तद्रूपं यदेकं तेन सहाभेदोपचरितमित्यर्थः । स्यान्नित्य इत्यादिरिति, आदिपदात्स्यादनित्यः स्यादवक्तव्य इत्येतयोः परामर्षः । तुर्यादिभङ्गचतुष्टस्य विकलादेशत्वमुपपादयति-यदा त्वित्यादिना । तद्विशेषाभ्यां द्रव्यविशेषपर्यायविशेषाभ्याम् । तद्यौगपद्येन द्रव्यपर्यायसामान्ययौगपद्येन, द्रव्यविशेषपर्याय विशेषयौगपद्येन । तदतदात्मकं नित्यानित्यात्मकम्, वस्तुनः समुच्चाश्रयं तदतदात्मकमेकत्वं चतुर्थविकल्पे - स्यान्नित्यं स्यादनित्यमिति तुर्यभने उच्यते इत्यन्वयः । ते समुच्चाश्रयनित्यत्वानि - त्यत्वादयः । तस्य वस्तुनः। द्रव्यपर्यायसामान्याभ्यां तद्विशेषाभ्यामित्यादि यदुक्तं तदेव प्रपश्चत उपदर्शयन् चतुर्थभङ्गमुपपादयति-तत्रेत्यादिना । सत्त्वासत्त्वादिगोचरसप्तभन्याश्रयणेनोपपादन प्रकारोऽन्यत्राप्यनुसन्धेयः, द्रव्यार्थविशेषाणां बहुविधत्वेऽपि कतिपयविशेषात्प्रतिपाद्यजनप्रतिपत्तिसौलभ्यायोपदर्शयति- विशेषस्त्विति । पर्यायविशेषानुपदर्शयति- तथेति । श्रुतप्रतियोगिन इति, श्रुता ये खद्रव्यत्वादयस्तत्प्रति योगिनस्तत्प्रतिपक्षभूता इत्यर्थः । अस्वद्रव्यत्वेत्यादि, स्वद्रव्यत्वस्य प्रतिपक्षमस्वद्रव्यत्वम्, आत्मत्वस्य प्रतिपक्षमनात्मत्वम्, चेतनत्वस्य प्रतिपक्षमचेतनत्वम्, आदिपदादद्रष्टृत्वाज्ञातृत्वामनुष्यत्वादेर्प्रहणम्, अद्रष्टृत्वादयश्च द्रष्टृत्वादीनां प्रतिपक्षाः, असत्त्वाद्रव्यत्वेत्यादिपाठस्तु न सम्यग् असत्त्वस्य श्रुतप्रतियोगित्वाभावादिति बोध्यम् । उक्तादन्येऽपि द्रव्यपर्यायविशेषा द्रव्यादिसम्बन्धात् सम्भवन्ति, तानुपदर्शयति-तद्द्रव्येति । तद्विशेषैश्च पृथिव्यादिविशेषैश्च । घटादिभिरित्यनन्तरम् अद्रव्यत्वमित्यस्यानुकर्षः । द्रव्यत आत्मनः द्रव्यत्वमद्रव्यत्वश्च वृत्तिभेदमुपदर्श्य क्षेत्रतो द्रव्यत्वमद्रव्यत्वं च वृत्तिभेदमुपदर्शयति- क्षेत्रत इति । कालतः द्रव्यपर्यायवृत्तिभेदमुपदर्शयति-काल इति । पर्यायादेशादित्यग्रिमग्रन्थस्वारस्यात् स्वजात्यनुच्छेदादिति द्रव्यार्थादेशादित्यस्यैव शब्दान्तरेण कथनं बोध्यम् । अभिन्नकालता द्रव्यवृत्तिविशेष इति । पर्यायादेशादिति, पर्यायनये आत्मा ज्ञानदर्शनरूप इति तदादेशात् । घटादिविज्ञानदर्शन विशेषाः पर्यायवृत्तिविशेषा इत्यर्थः, एकस्यात्मन एव कदाचित्को धाद्युत्कर्षो भवति कदाचित्क्रोधाद्यपकर्षो
SR No.022537
Book TitleTattvartha Trisutri Prakashika
Original Sutra AuthorN/A
AuthorVijaylavanyasuri
PublisherJain Granth Prakashak Sabha
Publication Year1945
Total Pages150
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy