________________
[८८] स्यात्-शब्दस्य स्वरूपादिकं तत्सहचरितास्याः सप्तभङ्ग्याश्च प्रयोजनम् । [तत्त्वार्थत्रिसूत्री स्याच्छब्दस्तु द्रव्यधर्मलिङ्गसङ्ख्याभेदवियुक्तत्वादसिप्रकृतिविध्यादिविषयसद्विभक्तिप्रथमपुरुषैकवचनान्तप्रतिरूपको निपातो विधिविचारणास्तित्वविवादानेकान्तसंशयाद्यर्थवृत्तिः, तस्य चानेकान्तावद्योतनमेवार्थो विवक्षितः, केवलस्य च सामान्य विषयत्वावद्योतकत्वाद् विवक्षितार्थप्रतिपादनाय द्रव्यधर्मविशेषोपादानं तन्नान्तरीयकत्वात् , निपातानां चापरिमितत्वादनेकान्तद्योतकतया विवक्षितत्वादिति, स्याच्छब्देनानेकान्ताभिधानादाक्षेपेऽपि सप्तभझ्याः पुनर्भेदेनोपादानं विशिष्टार्थप्रतिपादनाय, यथा-वृक्षशब्देन सामान्यविषयेणाक्षेपेऽपि धवादीनां विशेषप्रतिपिपादयिषया धवादिशब्दोपादानम् एवमेतदपि दृश्यम् , भेदाप्रतिपत्तेर्विवक्षितभेदप्रतिपादनाय भेदपरिमाणनियमाभिधानाय वा सामान्य. लक्षणप्रपञ्चव्याख्यानाय वा संक्षेपव्यासाभिधानम् , तत्रास्तित्वनास्तित्वैकान्तनिवारणाय प्रथमद्वितीयौ एकान्तरूपस्यार्थस्यावस्तुत्वादिति । तृतीयविकल्पाभिधित्सया भाष्यकृदाहमुख्यसत्त्वेति, मुख्यसत्त्वं विशेषणं यस्य तन्मुख्यसत्त्वविशेषणं तत्त्वेनेत्यर्थः। धर्मिण आत्मनः । उपादानात्, आत्मेतिपदेन पृथगुपदर्शनात् , अस्तिपदप्रतिपाद्यस्यास्तित्वगुणस्य विशेषणतया प्रतीतेरित्यर्थः । असत आत्मनो विशेष्यत्वे परस्य नास्त्यात्मेत्यत्रासत्त्वे यथा विशेषणतया प्रतीतिरित्याह-असत्त्वे इवेति । उपात्तस्य स्याच्छब्दस्य किं स्वरूपम् ? तत्कथं निष्पन्नम् ?, अर्थाश्च तस्य कति विधाः?, कमर्थमाश्रित्य प्रकृते तस्य प्रयोग इत्यादिजिज्ञासोपशान्तये आह-स्याच्छब्दस्त्विति । तस्य च, दर्शितानेकार्थकस्य स्याच्छब्दस्य पुनः । अनेकान्तार्थत्वं स्याच्छब्दस्य न वाचकतया किन्तु द्योतकतयैवेत्यावेदनायोक्तम्-अनेकान्तावद्योतनमेवेति। अर्थः, द्योत्यत्वेनाभिधेयः। ननु स्यात्पदेनैवानेकान्तावद्योतने अस्तित्वादिधर्मविशेषोपादानमफलम् , सर्वस्यापि धर्मस्यानेकान्तस्वरूपनिविष्टत्वादित्यत आह-केवलस्य चेति । स्यात्पदस्येति दृश्यम् । विवक्षितार्थप्रतिपादनायेति, सत्त्वादिविशेषधर्मविशिष्टतयाऽर्थप्रतिपादनायेत्यर्थः । तन्नान्तरीयकत्वात, विशेषधर्मेणास्तित्वाद्यनेकान्तस्य सामान्यतोऽनेकान्तत्वव्याप्यत्वात् । कथं च स्यादित्यस्य निपातत्वमनेकान्तद्योतकत्वश्चेत्यपेक्षायामाहनिपातानामिति, नहि परिमिता एव शब्दा निपात्यन्ते येन परिगणितानां तेषाम्मध्येऽपठितत्वात्स्यात्पदस्य निपातत्वं न स्यात् यदा च निपाता अपरिमितास्तदा यथा उभयसम्प्रतिपन्नः कश्चिच्छब्दो निपातनान्निष्पन्नो निपातस्तथा स्याच्छब्दोऽपि, यदा चैतावत्खेवार्थेषु शब्दा निपात्यन्त इति नियमो नास्ति तदा यथा कस्यचिच्छब्दस्य प्रतिनियत एवार्थेऽमुकस्मिन्निपातस्तथा स्याच्छब्दस्याप्यनेकान्तरूप एवार्थे निपात इति भवति स्याच्छब्दस्यानेकान्तावद्योतकत्वम् । स्याच्छब्दस्यानेकान्तावद्योतकत्वे एकेनैव स्याच्छब्देन तद्घटितेनैकेनैव भङ्गेन वा सर्वधर्माणामवगतौ सप्तभङ्गी किमर्थं प्रयोक्तव्येत्यपेक्षायामाहस्याच्छब्देनेति । आक्षेपेऽपि, एकधर्मप्रतिपादनमुखेन सकलादेशमहिन्ना कालादिभिरष्टभिरभेदवृत्त्यभेदोपचाराभ्यां सकलधर्मप्रतिपादनेऽपि, अथवा स्याच्छब्दद्योतितानेकान्तत्वान्यथानुपपत्त्या सकलधर्मावबोधप्राप्तावपि । तावता सामान्यत एव धर्माणामवगमेऽपि प्रातिखिकविशेषधर्मेण प्रतिनियतवस्खनिमित्तापेक्षवृत्तिकेनावगमाय सप्तमभङ्गी पर्युपासयितव्येति । सामान्यतो ज्ञातेऽपि वस्तुनि विशेषतोऽवगमनाय शब्दान्तरप्रयोगे दृष्टान्तमाह-यथेति, सामान्यरूपेण सकलधर्मावगतावपि कति ते धर्मा इति न ज्ञायन्ते, किंवरूपाश्च ते इत्यपि न ज्ञायन्ते, एतावन्त एवं ते विधिनिषेधविवक्षातः प्राप्यन्त इत्यपि नावधार्यन्ते, सामान्यलक्षणप्रपश्चनमपि न व्याख्यातं भवतीत्येतदर्थ सप्तभङ्गीप्रयोग आवश्यक इत्याह-भेदाप्रतिपत्तरित्यादिना, स्यादित्यनेन सामान्यतोऽनेकान्तावद्योतकेन भेदाप्रतिपत्तेः, भेदस्य धर्माणामन्योन्यभेदस्याप्रतिपत्तेः। विवक्षितभेदप्रतिपादनायेति, कथञ्चिदस्तित्वकथञ्चिन्नास्तित्वादिसप्तविधधर्मप्रतिपादनायेत्यर्थः । भेदपरिमाणनियमाभिधानायेति, अस्तित्वधर्मस्यैकस्य विधिनिषेधकल्पना सप्तैव धर्माः, एवं नित्यत्वादेरपि, नाष्टौ षडादिति यो भेदपरिमाणनियमस्तदवबोधायेत्यर्थः । एवंरीत्या स्यादस्ति स्यान्नास्तीत्यादिसप्तभङ्गीप्रयोगस्यावश्यकत्वम्, तथा खद्रव्यादिनाऽस्ति परद्रव्यादिना नास्तीत्यादिना विशेषरूपेण सप्तभझ्याः प्रयोगोऽप्यावश्यक इत्याह-सामान्यलक्षणेति, सामान्यस्वरूपस्य यः प्रपश्चः विशेषरूपस्तद्व्याख्यानाय वेत्यर्थः, सामान्यसप्तभङ्गी व्याख्येया तद्व्याख्यानरूपैव विशेषसप्तभङ्गी अवगतिसौष्ठवायेति भावः। एवं सामान्यतः विशेषतश्च सप्तभङ्गीमुपपाद्य तद्धटकाद्यभङ्गादेः प्रयोजनमुपदर्शयति-तत्रेति, सप्तभङ्ग्यामित्यर्थः । निवारणं च स्यात्पदप्रयोगेण निर्वहति, किमर्थं च तन्निवारणमित्यपेक्षायामाह-एकान्तरूपस्येति, तथा च तन्निवारणफल