________________
श्रीविजयसुशीलसूरीश्वर - महोदयैः अतीवोपादेयत्वं धार्यते। जैनदर्शनसाहित्ये शताधिकग्रन्थानां रचयिता श्रीमद्विजयसुशीलसूरीश्वरः दर्शनशास्त्राणां अतीवमेधावी विद्वान् वर्तते।
___ उर्वरीक्रियतेऽनेन भवमरुधराऽखिलमण्डलम्। जिनशासनञ्च स्वतपतेज-व्याख्यान-लेखनपीयूषधारा जीमूतमिव श्रीमद्विजयसुशीलसूरीश्वरेण प्रथमेऽध्याये मोक्षपुरुषार्थसिद्धये निर्दोषप्रवृत्तिश्च तस्या जघन्यमध्यमोत्तरस्वरूपं विशदीकृतमस्ति
(1) देवपूजनस्यावश्यकता तस्य फलसिद्धिः। (2) सम्यग्दर्शनस्य स्वरूपं तथा तत्त्वानां व्यवहारलक्षणानि। (3) प्रमाणनयस्वरूपस्य वर्णनम्। (4) जिनवचनश्रोतृणां व्याख्यातृणाञ्च फलप्राप्तिः। (5) ग्रंथव्याख्यानप्रोत्साहनम्। (6) श्रेयमार्गस्योपदेशः सरलसुबोधटीकया विवक्षितः।
अस्य ग्रंथस्य टीका आचार्यप्रवरेण समयानुकूल-मनोवैज्ञानिक-विश्लेषणेन महत्ती प्रभावोत्पादका कृता। आचार्यदेवेन तत्त्वार्थाधिगमसूत्रसदृशः क्लिष्टविषयोऽपि सरलरीत्या प्रबोधितः। जनसामान्यबुद्धिरपि जनः तत्त्वविषयं आत्मसात्कर्तुं शक्नोति।
अस्मिन् भौतिकयुगे सर्वेऽपि भौतिकैषणाग्रस्ता मिथ्यासुखतृष्णायां व्याकुलाः मृगो जलमिव भ्रमन्ति आत्मशान्तये। आत्मशान्तिस्तु भौतिकसुखेषु असम्भवा। भवाम्भोधिपोतरिवायं ग्रन्थः मोक्षमार्गस्य पाथेयमिव सर्वेषां तत्त्वदर्शनस्य रुचि प्रवर्धयति। आत्मशान्तिस्तु तत्त्वदर्शनाध्ययनेनैव वर्तते न तु भौतिकशिक्षया। एतादृशी सांसारिकोविभीषिकायां आचार्यमहोदयस्यायं ग्रन्थः संजीवनीवोपयोगित्वं धार्यते संसारिणाम्। ज्ञानजिज्ञासुनां कृते ग्रन्थोऽयं शाश्वतसुखस्य पुण्यपद्धतिरिव मोक्षमार्ग प्रशस्तिकरोति।
आशासेऽधिगत्य ग्रन्थोऽयं पाठकाः स्वजीवनं ज्ञानदर्शनचारित्रमयं कृत्वाऽनुभविष्यन्ति अपूर्वशान्तिमिति शुभम्।
फाल्गुन शुक्ला पूर्णिमा जालोर (राजस्थान)
- पं. हीरालाल शास्त्री, एम.ए.
संस्कृतव्याख्याता